पृष्ठम्:न्यायमकरन्दः.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ मू०-तु चैत्रसमवेतगमनजनितफलशालिनः कर्मभावः मानमिति मन्तव्यं, जानातेः सदा सकर्मकतया कर्मणा व्याप्तस्य तन्निवृत्तौ निवृत्ते तस्मादर्थसंवित्तिरेवात्मानात्मप्रकाशनरूपा प्रकाशत इति न किञ्चिद्वद्यमिति । तस्याप्यविचारितरमणीयै वचनं, संविद्धीनप्रकाश ता हि संवेद्यता व्याप्ता कुम्भादेः सा च व्यापिका व्या टी०-तर्हि मानसप्रत्यक्षतैवास्तु उक्तलक्षणाभावेनात्मनोपि कर्मत्वा भावादित्यत आह -- * नचैतद् ?” इति, । पटकसैकज्ञानेनात्मनः सिद्धिरिति नैयायिकादिभिरनभ्युपगमाद् अहमितिज्ञानेंऽनात्मकर्म त्वस्यानाशङ्कनीयत्वाद् आत्मनोपि कर्मत्वाभावे सकर्मकज्ञानक्रि यानिवृत्तिरेव स्यादित्यर्थः, ॥ ८ ८

इदानीं प्रभाकरः स्वपक्षमुपसंहरति तस्माद् ' इति, नीलादिसंवित्तिः स्वाश्रयमात्मानमनिदैतया प्रकाशयति, विषयं चे दन्तया प्रकाशयति, स्वयं च स्वप्रकाशतया स्फुरतीत्यर्थः, । संविदतिरिक्तस्य संवित्कर्मत्वाभावे संविदधीनप्रकाशतैव स्यादित्यभिप्रायेण निराकरोति – “ तस्यापि ?” इति, ॥(यत्रशिं शापात्वै तत्र वृक्षत्वमप्यस्ति वृक्षता व्यापक व्यावर्तमाना यथा स्वव्याप्यं शिशापात्वमप्यादायव्यावन्र्तते तद्वद् यत्तू संविदधीनप्र