पृष्ठम्:न्यायमकरन्दः.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम् । १४९ मू०—त्यक्षादिविरोधादाम्रायस्य तदपेक्षस्याप्रामाण्यम्’ इति, सांव्यवहारिकप्रामाण्यभावस्यैव प्रत्यक्षादेः स्वरूप सिद्धावाम्नायेनापेक्ष्यमाणत्वात्, तात्विकांशवाधनेऽपि विरोधाभावात्, । प्राचीनतया च प्रतिष्ठितस्यापि रजतज्ञानस्य प्रस ञ्जकतया च स्वरूपसिद्धावपेक्ष्यमाणस्यापि नेदं रजत मिति पराचीनज्ञानेन वाधदर्शनाद्, आम्नायस्यापि स्वतः सिद्धप्रमाणभावस्य प्रमिता टी०-सांव्यवहारिकप्रामाण्यस्योपजीव्यत्वे तदन्यथाप्रतिपादन उपः जीव्याविरोधः किं वा तात्विकस्य,आद्ये तस्योपजीव्यत्वेपि तद्वाधा भावान्न विरोध इति परिहरति -“ सांव्यावहारक ?” इति, प दपदार्थयोः खरूपस्य संवैधस्य वाऽग्रहे शब्दस्याप्रामाण्यादुपजीव्यस्ता त्विकांश इति न वाच्यं त्रिचतुरकक्षाविश्रान्तेनैव तद्रहाङ्गीकाराद् अन्यथा सर्वपुरुषावाध्यत्वस्यासर्वज्ञेन दुर्विज्ञानतया न शब्दप्रवृति स्यादित्यर्थः । तात्विकांशस्यानुपजीव्यत्वात् तद्बाधेपि न विरोध इति द्वितीयं पक्षं दूषयति –“ तात्विक इति, आस्रायस्य सा पेक्षत्वं किमुत्पत्तौ किं वा प्रमिताविति विकल्प्याद्ये दोषमाह

  • प्राचीनतयाच इति, ।

द्वितीये दोषमाह-“ आम्रायस्य ” इति,।