पृष्ठम्:न्यायमकरन्दः.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-सकलप्रतिपत्तिषु प्रमाणस्मृतिभूतासु प्रकाशते न पुनरद्वैतानन्दरूपेण, नच तस्य स्वप्रकाशस्य केन चि दावरणाद्युपपत्तिर्येन यथावन्न प्रकाशेत तस्मादद्वैतानन्द रूपं बह्म वेदान्तप्रमाणाकमिति महानयं व्यामोहो ब्र ह्मवादिनामिति सिद्धम् । अत्राऽभिधीयते स्यादेतदेवं यदि सिद्धार्थगोचरा प्रा थमिकी शब्दशक्तिव्युत्पत्तिरापादयितुमशक्या शक्यते तु सा पुत्रस्ते जात इत्यादौ प्रागुन्नीतन्यायेनापादयितुं यत्पुनरत्राऽभिहितं परिशेषावधारणानुपपत्तिरिति, त दसाधु, प्रमाणान्तरावसितपुत्रजन्मलक्षणहर्षकारणसंभवे सत्यत्यंतापरिदृष्टभूतभविष्यद्वर्तमानादीनां कल्पनानु पपत्त्या परिशेषावधारणायाः सुकरत्वात यो हि प्रतिपन्नदेवदत्तप्रमोदहेतुपुत्रजन्मा तद्वार्ता हारेण सह देवदत्ताऽभ्यासमागतस्तस्य हि सबन्धवोडू टी०-तिभास इत्यत आह-* न च तस्य इति, । खप्रकाश त्वादावरणं न सम्भवतीत्यर्थः । (प्रागुरुीतन्यायेन ) वदनविकाशादिना हर्षोंत्पत्त्यनुमानादिना, ननु येन पुत्रजन्म नावसितं तस्य कथं पुत्रस्तेजात इति पदनि चयसंगत्यवगतिरित्यत आह-* योििहे ?” इति, । दृष्टगवानयन स्येव काय्यें शब्दव्युत्पत्तिवद्वसितपुत्रजन्मन एव. सिद्धे व्युत्पत्रि