मू०-सत्यं, तत्र शब्दतव्द्यापारयोः प्रवर्तकत्वपक्षस्तावद् तिस्थवीयानेव, तथापि यदि कश्चित्तथा प्रत्यवतिष्ठते तं प्रत्येतावदेव तावदभिधातव्यं, सर्वत्र दृष्टानुसारि णी कल्पना प्रसरीसरीति नत्वन्यथा कापि तथाच य दन्यदा प्रमाणान्तरनिवंधने व्यवहारे प्रेक्षावत्प्रवृत्ति हेतुतया स्वात्मन्युपलब्धं तदेव शब्दनिबन्धनेपि व्यव हारे चेतनप्रवृत्तिहेतुतया बालाः कल्पयितुमलम्, न चैतैर्मानान्तरानबन्धने व्यवहारे शब्दतद्यापारयोः प्रवृत्ति हेतुभावः कचिन्निश्चित इति कथं तयोरिह प्रवृत्तिहे तुभावंकल्पयेयुर्, अर्थभेदाववेोधादेव हि प्रेक्षापूर्वका रिणस्तत्र तत्र प्रवर्तन्ते न श प्रवर्तकत्वनिधरणम् । यमात्रात् । टी०-न्तराणि निराकर्तुमाह -“सत्यम् ' इति, 1 सूचीकटाहन्या येन शब्दतद्यापारयोः प्रवर्तकत्वं निराकरोति -' तत्र ” इति, । स्थवीयान् स्थूलतर, सूक्ष्मतरन्यायदर्शनरहित इति यावत, ता वता कथं निराकरणमिति, तत्राह -' तथाच ' इति, । तत : किमित्यत आह --* नचव ' इति, । स्वप्रवृत्तौ तयो. प्रवर्तकत्वा भावान्न शाब्दे व्यवहारे तयोः प्रवर्तकताध्यवसाय इत्यर्थ , । कथं तयो. खव्यापारे प्रवर्तकत्वाभाव इति तत्र इ –* अर्थ भेदावबोधाद् ?” इति,।
पृष्ठम्:न्यायमकरन्दः.djvu/१८५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति