मू०-रागावच्छेदेन प्रवृत्तिहेतुतामवलम्बतइतेि सिद्यम् , नन्वेवमपि किं कृतिसाध्यतैकार्थसमवायेिताविशेष णेन, श्रेयःसाधनतैव चेतनसमीहास्पदत्वेन प्रवृत्तिहेतु रस्तु, चेतनसमीहा च नातीतादाविति सिद्धा समीहयैव मैवं, अस्तिहि निदाघनिशीथिनीसुरतारम्भपरि श्रान्तसुन्दरीसमीहास्पदस्य समीहितसाधनस्यापि सुधा मरीचिमण्डलोदयस्य प्रवर्तकताब्यभिचारः, तस्माद् वि षयस्य कृतिसाधनतार्हतापि कर्तृसामथ्र्यादिवत् समी हितसाधनतासहकारिभावेन प्रवृत्तावुपयुज्यत एवेति - मणीयम्, । यदपिकैश्चित-कृतिसाध्यतायाः कालोपबन्धाधिगत टी०-गीति शङ्कते-“नन्वेवमु” इति । तावता कथमतिप्रसङ्गनिवृ त्तिरिति तत्राह-“ चेतनसमीहाच इति । खसमीहामात्राविषयत्वेनावगतेष्टसाधनस्याप्यप्रवर्तकत्वात्कृति साध्यत्वविशेषणमुपयोगीति परिहरति– “ मैवम् ?” इति । कृतिसाध्यत्वविशेषणस्योपयोगप्रकारमुपसंहारव्याजेनाह-* त स्माद् ?” इति, कृतिसाध्यत्वस्य प्रतिबन्धनिरामद्वारेणान्यथासिद्धौ कथमुपयोम इति मतान्तरमुत्थापयति-* यदपि ?” इति। ,
पृष्ठम्:न्यायमकरन्दः.djvu/२०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति