न्यायमकरन्द म्०-अथ वध्यघातकभावो विरोधः, तत्रापि नाजात एकोऽन्यं हन्ति नाप्यन्याधारं, तत्रैकाधारयोर्वध्यघातक भावे कथमसावाधारभेदं गमयेत, अथ भावाभावात्मता विरोधः, तथा च सुखाद्य इति, नैषोऽप्यधिकरणभेदा पादनायालम्, एकत्रैव गगने विहगतद्भावयारुपल म्भाद्, अथ काल्पनिकप्रदेशभेदाद्दोषः, स न प्रकृते दण्डवारितः । एतेनेदमपिरास्तं यथाहुरेके– “ जननमरणकर णानां प्रतिनियमाद्युगपत्प्रवृत्तेश्च, पुरुषबहुत्वं सिद्धं त्रै गुण्यविपर्ययाच्च ” इति । किंच जननादयः क्षेत्रसमवायिनः क्षेत्रज्ञस्य भेदः टी०-द्वितीयं पक्षमुत्थाप्य निराकरोति “ अथ ?' इति । उक्तन्यायं साङ्खयपक्षेप्यतिदिशतेि “एतेन ” इति, कचिजन्म: कचिन्मरणं, कचिञ्चचत्रादीनां सत्त्वमन्यत्र चासत्वमिति नियमः, । अयुगपत्प्रवृत्ति =जननादीनां भिन्नकालत्वं । त्रयो गुणा:=सत्वर जस्तमांसि, त्रिगुणा एव त्रैगुण्यं, तस्य विपप्र्ययः=कश्चित्सात्वि कः कश्चिद्राजसः कश्चित्तामस इति । विप्रतिपन्ना जीवा बहवो विरुद्धधर्माक्रान्तत्वाद् ' इत्यनुमानं चेत् तत्राह- * किञ्च ” इति । तत्रापि जननादीनां भिन्ना धिकरणत्वप्रतिनियमः, किं वा भेदमात्रम, उत विरोध इति वि कल्पानां तदूषणानां तुल्यत्वाद् इदमष्यपास्तमित्यर्थः ।
पृष्ठम्:न्यायमकरन्दः.djvu/२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति