पृष्ठम्:न्यायमकरन्दः.djvu/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ न्यायमकरन्दे मू ०-तीतिरिति चेत्, प्राप्तस्तर्हि प्रमाणान्तरगोचरीभावः । मैवमानुपपत्तिकविज्ञानस्याप्रमाणत्वादिति चेत् । तत्किमिदानींस्मरणमेव तद्, नो खलु स्मरणग्रहणाति रोकिं विज्ञानमस्ति भवताम् , । अद्या स्मरणमेवैतत्तकरूपत्वात्, तर्क हि स्मरणमाद्रि यामहे, नच पूर्वानुभूतसंस्कारयोनिताऽभावादस्मृतिता, सापेक्षतामात्रस्य स्मृतिलक्षणत्वाद्, अस्ति चात्रापि भाविन्यपूर्वगोचरे मानेऽपेक्षणमिति, टी०-ऐकासपदेनाभिहितानयोज्यस्य क्षणिकक्रियायां कार्यत्वबोधानु पपत्तेरतिरिक्तं कार्यमवगम्यते तत्र लिङादेस्सङ्गतिग्रह इति भाव । परिहरति-“ प्राप्त " इति, । अर्थापतिगोचरभावादिति । भाव मानान्तरगोचरत्वपरिहरमशङ्कते,-‘‘ मैवम् ?” इति, । ग्रहणस्मरणभेदेन त्रैविध्यं वदत प्रकृतविज्ञानस्य प्रमाण स्वाभावे स्मरणरूपत्वमेव स्यात्तथाचऽननुभूतं स्मरणभावाप्रमा णान्तरगोचरत्वमेव स्यादिति परिहराति-“ तत्किमिदानीम् ?’ इति । तथात्वे किं नियामकमित्यत आह -‘‘ नोखलु ’ इति, स्मरणत्वेष्यस्य न प्रमाणान्तरत्वमिति शङ्कते -‘‘अडr’’ इति, स्मरणलक्षणाभावाद्वस्मरणत्वमित्याशङ् परिहरति पूर्ववादी « नच ” इति, । सापेक्षतैव कथमिति तत्राह-‘अस्तिच ” ८ १० ७