पृष्ठम्:न्यायमकरन्दः.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ न्यायमकरन्दे ०-पारान्तरनैरपेक्ष्यान्नापरं किं चित्कल्पनयमिति कल्प नालाघवाद्यापारत्वमेव लिङाद्यभिधेयस्य प्रवृतिहे तोर्निधीयते, । सामान्यद्वारेण चाभिधाशब्दवह्यापाराभिधानं तदु त्पादनं च नानुपपनं, यथा खल्वभिधाशब्दः सामान्येना भिधामभिधत्ते विशेषं चोत्पादयति एवं लिङ्गदयोपि प्रवर्तनासामान्यमभिदधति विशेषं चोत्पादयन्तीति कि मत्रावद्यम् । ननु न प्रवर्तयत्यपि शब्दव्यापारे प्रेक्षापूर्वकारिणः प्रवर्तन्ते तस्याननुविधेयत्वाद्, नचाकामा अपि सलि लादिनोदनेनेव व्यापारेणामुना प्रवर्तन्ते, लिङाश्रा टी-पारवत्वत्कथमस्य व्यापारनैरपेक्ष्यमितिवच्यम् , अस्यैव प्रवृति प्रतिचरमव्यापारत्वेन तदतिरिक्तकलपनाभावादिति विशेषः। ननु व्यापारस्य शब्देन प्रतिपादने उत्पाद्यता न स्थापटवदि त्याशङ्काभिधानव्यापारेऽनैकान्तिकत्वान्मैवमितिपरिहरति- ‘सा- मान्यद्वारेण “ इति । दृष्टान्तं प्रपञ्चयति-“ यथाखल ’ इति । अभिधाशब्दः अभिधानक्रियावचकः शब्द इति यावत्, सामान्येनाभिधाभि धत्ते सर्वाभिधाचचकतया स्खाभिधामपि प्रतिपाद्यतीत्यर्थः। समीहितसाधनत्वाभावेन शब्दव्यापारस्य न प्रवर्तकत्वमिति शङ्कते-‘‘ ननु ’. इति, । अननुविधेयत्वेपि सलिलादिवस्पष्ट तिहेतुता किं न स्यादित्यत आह-“ नच " इति, ८