पृष्ठम्:न्यायमकरन्दः.djvu/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-यदपीदमवादि-‘आत्मोक्तविधया नाना शरीरा त्मसम्बन्धसम्बन्धित्वाच्छरीरवद्’ इति, तदपि न पेशलं सत्तादिनानैकान्त्याद्, अथोक्तविधसम्बन्धाधारत्वं हेतुः तथाप्यन्यथासिद्धः, कायादेरपि कार्यताधीनत्वादुक्तवि धया नानात्वस्य, * अवश्याऽऽश्रयणीयं चैतद् अन्यथाऽऽकाशादेरपि त त्सम्बन्धाधारत्वादनकताया दुपारहरत्वाद् । टी०-शरीरात्मनोयैःसम्बन्धस्तत्संसर्गित्वादिति वा हेत्वर्थः किं वा तदाधारत्वादिति विकल्प्याद्य दूषयति –“तदपि न पेशलम्' इति, शरीरात्मनोः सम्बन्धः संयोगस्तत्संसर्गिणी च सत्तागुणत्वे न च तयोऽव्यत्वव्यतिरिक्तापरजात्याधारत्वं सामान्यस्य नि:सामा न्यत्वादू, अतस्तत्र व्यभिचार इत्यर्थः । द्वितीयं पक्षमुत्थाप्य सोपा धिकत्वेन दूषयति-* अथ' इति । नच परमाण्वादिषक्तजास्या धारत्वसम्भवेपि कार्यत्वाभावेन साध्याऽव्याप्तिः, तेषामनित्यत्वोप पादनाद्, नापि प्रध्वैसे साध्याव्याप्तिः, भावरूपत्वे सतीतिविशेषण स्य विवक्षितत्वात, प्रागभावोपलक्षितसत्तायोगित्वस्य वा ! परीक्ष काभिमतकार्यत्वस्याऽऽयुपगमादिति भावः । कार्यत्वस्य विपक्षवाधकतर्केणानुपाधित्वमपाकरोति “अवश्याऽऽश्रयणीयं च' इति, आकाशादिकमुक्तविधया नाना शरीराकाशसम्बन्धित्वाद्. इतिप्रयोगे भवतापि कार्यत्वस्यैवोपा धिता वर्णनीया सा च प्रकृतेपि समानवेत्यर्थ ॥

  • दृष्टान्तीभूतकायादरापि नानात्वस्य काय्यैत्वाधीनत्वा, इत्युक्तयाऽत्रानुमाने का

य्यैत्वमुपाधिरिति सूचितम् । एव च ध्वसस्य सत्तायोगित्वाभावान्न काय्र्यंत्वमिति तत्त्वम् ।