पृष्ठम्:न्यायमकरन्दः.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्। मू०-तामङ्गीकुर्वाणः साध्यविकलतां दृष्टान्तस्याचष्टे तं प्रतेि अविवादास्पदस्यैव भेागायतनानीति साधनीयम् । यद्वा आत्मा द्रव्यत्वव्यतिरिक्तापरजात्याधारभेदेन नाना न भवति नित्यत्वाद्विभुत्वान्निरवयवद्रव्यत्वाद्वा गगनवद् इति परप्रसिद्धदृष्टान्तेन परेषामनिष्टापतिः नच परमाणूनामपि निरवयवादिसंप्रतिपत्तिर्येनानैकान्त इत्यलमतितर्करसावसेकेन ॥ टी०-“गगनवद्’ इति । ननु नित्यत्वस्य गगने मायावादिभिर् नङ्गीकारातू साधनविकलो दृष्टान्तः, विभुत्वस्य सर्वमूर्तसंयोगल क्षणस्यात्मनि निर्धर्मेऽसंभवात्स्वरूपाऽसिद्धिरिति गङ्गापुरीया इति चेन्न परसंमतहेतुद्धयाङ्गीकारेण परं प्रत्यनिष्टापाद्रनांदू , नचैतद्दृष्ट चरं (चैत्तानां च न चिद्धर्मत्वं नाणूनां चाजत्वम्) इत्यत्रीष्टसि द्धिकारप्रयोगेषु चिद्धर्माणामणूनां च धर्मिणां । परसंमतानामेव स्वीकारोपलम्भादू । परमाण्वादिष्वनैकान्तिकतामाशङ्क्य परिहरति *न च परमाणूनाम्' इति ॥ “इति क्षेत्रज्ञभेदोच्छेदवादः”

  • चैवत्तपत् सुगतसङ्कतन सुखादिपरम् ।