पृष्ठम्:न्यायमकरन्दः.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-न चान्द्रयान्वयव्यात्तरकानुवधायतया तत्का रणतानिरूपणादाद्यहेतोरसिद्धिरिति साम्प्रतं, धर्मिमात्रा ध्यवसायेन तत्कारणतोपपत्तावन्वयव्यतिरेकयोरन्यथा सिद्धेः, नचाक्षकारणतामन्तरेणापरोक्षत्वासम्भवो भेदा ध्यवसायस्येति मन्तव्यं, स्वप्नध्यानयोरिव तत्सम्भवाद, विभूििन्तभावेन तदापरोक्ष्ये तु नेहाऽप्यसौ दण्डवारितः तस्मात्सर्वमवदातम् । “इत्थं निरस्तनिखिलप्रतिकूलशङ्काद् वेदान्तवाक्यनिकरान्निखिलोपि भेदः शक्यो निषेद्धमिति सिद्धमनाद्यविद्या तद्वासनाविरचितभममात्रसिद्ध ' । टी०-अन्वयव्यतिरेकयोरन्यथासिद्धत्वेनेन्द्रियकारणत्वानुमाप कत्वाभावादिति परिहरति -“ धर्मिमात्र ” इति, इन्द्रियजन्य त्वाभावे कथमपरोक्षतेत्यत आह-*नचाक्ष' ' इति, एवं प्रत्य चादिविरोधाभावादनुपचरितार्यत्वेन वेदान्तानामद्वितीयब्रह्मप्रतिप त्तिजनकत्वमित्युपसंहरति-“ इत्थम्' इति, निरस्ता निखिलाप्र तिकूलाशङ्का यस्मिन्नू तत्तथा, प्रतिभासमानभेदस्य तर्हि का गतिरि त्याशङ्काह- “सिद्धमनाद्यविद्या' इति, वेदान्तवाक्यनिकरा ' न्निखिलोपि भेदो निषेडु शाक्य, इतिकृत्वाऽसावनाद्यविद्यातद्वासना विरचितभ्रममात्रसिद्ध इत्यन्वयः ।

  • इति ज्ञेयभेदोच्छेदवाद:"
  • साक्षिभास्यत्वनापरोक्ष्यसम्भवाद् इत्यर्थ ।