पृष्ठम्:न्यायमकरन्दः.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-दोषविशेषाच्च शुक्तित्वादिविभेदकविशेषाग्रहे,शु- क्लभास्वरतादिसादृश्यसन्दर्शनसमुद्बुद्धसंस्कारकारणक स्मरणमुपजायते रजतगोचरं, तच गृहीतग्रहणस्वभा वमपि मानसदेोषविशेषवशात्तत्तांशप्रमोषाद् ग्रहणस्व रूपमवतिष्ठते, तथाच रजतगोचरस्मरणस्य पुरोवर्ति टी०-स्मरणस्यनिमित्तमाह -“संस्कारकारणकम्” इति, अनु डुद्धस्य संस्कारस्य स्मरणकारणत्वं न सम्भवतीत्युद्धोधकमाह शुक्ल” इति, आदि-शब्दग्रहणाद् यावता संस्कारोद्वोधस्ताव त्साइश्यं विवक्षितं, तच्चासाधारणधर्मानभिभूतसाधारणधर्मबाहुल्यं तेन सर्वात्मना सादृश्यमेकदेशेन वा सादृश्यमिति पय्र्यनुयोगो निरव काशः, अन्यथा भ्रमवादिनापि सादृश्यस्य विपर्ययहेतुताङ्गीकारेण तत्रापि पय्र्यनुयोगस्य सुवचतया जात्युत्तरतापत्ते.* । स्मरणं चेत्तू तद्रजतमिति स्वविषयं कस्मान्नप्रथयेदित्यत आह-“तच्च' इति, नन्वख्यातिपक्षे रजतार्थिनः पुरोवर्तिनि प्रवृत्ति. सामानाधिकरण्यव्य पदेशश्च किमिदमिति ज्ञानादुत स्मरणादथवा ज्ञानद्वयाद्वा, न ताबत्प्र थमौ-इदमालम्बनघटादिज्ञाने देशान्तरजतस्मरणे च पुरावात्तान तत्प्रसङ्गाद्, न तृतीयो ज्ञानद्वययौगपद्याभावादित्याशङ्का निरन्तरोः त्पन्नज्ञानद्वयमेव सम्यग्रजतज्ञानसरूपतया प्रवृत्तिहेतुरिति परि हरति-“तथाच' इति ।

  • जातिर्नाम स्थापनाहेतौ प्रयुक्त य प्रतिषेधासमर्थः प्रतिषेधबुद्धया प्रयुक्तो

हेतु , ताश्च चतुविशति, तत्रयमुपपत्तिसमाख्या जाति , व्यक्तचैनद् गैौतमीये पञ्चवम इति तत एव कणेहत्य निरीक्षणीयम्, एतन्मूलक्र एव –“यश्चोभयो हारो वापि तत्सम, नैकः पय्र्यनुयोक्तव्यस्तादृगर्थविचारण” इति न्यायप्रयोगस्तत्र समो दोष. परि तत्रेत्यवसेयम् ॥