पृष्ठम्:न्यायमकरन्दः.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातिवादोत्थापनम् । मू०-सत्ताऽपन्हूयेत,तथा च (अतिव्यवधानादसैप्रयुक्त रजताकारस्यापरोक्षगेोचरभावानुपपत्तिः) इत्यपि रिक्तव वाचो युक्तिः, शुक्तिशकलस्यैवानाकलितनिजाकारस्य ने त्रदोषवशादेव रजताकारेणापरोक्षप्रतिभासगोचरभावाभ्यु तस्य च रजतात्मना प्रतिभासगोचरभावे प्रमा णमनुमानं (विवादपदं रजताकारेणावभासते तदर्थिनो भावः । टी०-त्याशङ्कयाह-“तथा च' इति । प्रतिभासमानस्य साकल्येन सन्निकर्षाभावादपरोक्षत्वानुपपत्ति, कि वैकदेशसन्निकर्षाभावाद् , नाद्यः प्रत्यभिज्ञानस्याप्यपरोक्षत्वाभावप्रसङ्गात तत्तांशस्यास्सन्निक षद्, एकदेशसन्निकर्षाभावस्तु नास्ति शुक्तिशकलस्यासन्निकर्ष त्वाभावादित्याह -“शुक्तिशकलस्य इति । न च तर्हि ताव देव प्रतीयेत न रजतमिति वाच्यं तत्तांशवद् रजतस्यापि संस्कारोप स्थापितत्वादू, नच तथात्वे तदेवद रजतमिति प्रत्ययप्रसङ्गः, तथा भूतस्यापि *भ्रमस्य कचिद्भावाद्, स्मृत्युपनीते पदार्थे तत्तांशनियमा भावाद्, नच तद्वदेवाभ्रमत्वप्रसङ्गः, दोषादन्यथाभावोपपत्तेरिति ननु नाभ्युपगममात्रेण वस्तुसिद्धि किन्तु मानत इत्यत आह ।

  • तस्यच इति । रजतस्य साधन व्यभिचारनिवारणार्थ नियमे

नेति पदै, घटादौ व्यभिचारवारणाय तदर्थिन इति ।

  • तयाभूतस्य = तत्तशरहितस्य ।

कृतव्युत्पादन चैतद् (भूयसा च पढात्पदार्थम्मग्णानामनुलिखिनशानामेदो पलम्भाद्) इत्यादिना प्राक पृ ० ६२ प५ ।