शरीरे पादावुपाधिनिबन्धनावेदना व्यवस्था तथाऽनेके
ध्वपि देहेष्वेकस्यैव देहिनो वेदनादिव्यवस्थोपाधिनिबन्ध
नोपपद्यत इति, तदसुन्दरन्, तथा सति यथा तत्र पादे
मे वेदना शिरसि मे वेदनेत्यनेकवेदनास्वेकस्यैवानुस-
न्धानं, तथानेकशरीरोपाधिव्यवस्थितानेकवेदनास्वेकस्यै-
वानुसन्धानप्रसङ्गात्, नचैतदस्ति,
अन्यथा चरणतललग्नकण्टकावरणाय पाणितल व्यापारवचैत्रशरीरलग्नकण्टकोडरणार्थ मैत्रशरीरव्यापा रप्रसङ्गादिति ।
अपरे पुनरेवमाहुः-आत्मा द्रव्यत्वव्यतिरिक्तापरजा त्याधारभेदेन नाना, अश्रावणविशेषगुणाधिकरणत्वाद्
स्वव्याप्यमौपाधिकं भेदं निवर्तयतीत्यर्थः, यादि चैत्रशरीराधिष्ठातामै त्रशरीराधिष्ठातुरभिन्नः स्यात् तदा मैत्रशरीरवेदनानुसन्धाता स्यान् मैत्रशररिधिष्ठातृवद् इति प्रसङ्गार्थःअन्यथौपाधिकभेदस्य तात्विकैकत्वस्योभयस्य वा सर्वशरीरानुसन्धानेन व्याप्तयभावद भास एव प्रसङ्गः स्यादू । विपर्यये पर्यवसानमाह – नखै. तद् ’ ’ इति ।
अनुसन्धाने दोषमाह - ‘‘ अन्यथा '’ इति, यद्ययं मैत्रशरीर- वेदनाऽनुसन्धाता स्यात्तदातद्धेतुपरिहाराय चैत्रशरीरं व्याप्रियेत तदधिष्ठातृवदेवेति प्रसङ्गार्थः ।
अर्थापत्तिमनुमानन्तर्भूतां यं न मन्यन्ते तन्मतनात्मभेदे साधय ति -“ ‘ अपरे पुनर्” इति, द्रव्यत्वव्यतिरिक्कापरजात्याधारनि- ठभेदेन भेदवानिति यावदू । सत्ताधारनिष्ठभेवत्वस्यसिद्धसाधन