पृष्ठम्:न्यायमकरन्दः.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-यद्युच्येत नाभावो नाम भावादन्यः कश्चिदपितु भाव एव भावान्तरात्मनाऽभावः स्वरूपण तु भावः यथात्म् न्यायमकरन्द “भावान्तरमभावो हि कयाचित्तु व्यपेक्षया' इति ।

  • भावान्तरमभावोन्यो न कश्चिदनिरूपणाद्’ इति च ।

तथा चासतेोपि सदात्मनोपाख्येयतया युज्येतैवोप लम्भगोचवरभावो न पुनरत्यन्तासतेो निरुपाख्यस्येति । तत्किमिदानीं निरुपाख्यं चेन्नानुभवगोचरः शुक्ति रपि रजतात्मना सोपाख्यैव यदेवमनुभवगोचरतामव लम्बते । टी०-प्रसतः प्रतिभासेपि न गगनकुसुमादिख्यातितुल्यताऽसतोपि भावत्वादिति शङ्कते-* यद्युच्येत' इति । तर्हि भावाभावयोः को विशेष इति तत्राह-* भावान्तरम्' ' इति । अस्तु तथापि कथ नासत्ख्यातिरिति तत्राह -* तथाचव गूढाभिसन्धिरुत्तरमाह सिद्धान्ती-“ततकिमिदानीम्” इति । प्राह पूर्ववादी “ अद्धरा' ' इति । शुक्तिरपि रजतात्मना सोपाख्यैवेति स्पत्यमित्यर्थः ।