--हन्तैतदात्म्यावभासोपि सोपाख्यगोचरत सदेवविषयीकुर्वाणः समीचीन इति न विभ्रमो नापि वाध्यत, ॥ सत्य अन्यथाख्यानियादनिरास । योस्तदात्मनैवामू गोचवरयेद्, अन्योन्यात्मना त्वमू गाः चरयन् कथमसौ सोपाख्यगोचरोपि समीचीनतया न विभ्रमः कथं वा न वाध्यत इति चेद् । हन्तेयमन्योन्यात्मता किं सत्त्वेनानुभवगोचर उ तासत्त्वेन, नाद्यः, अन्योन्याभावात्मनेोरनयोरैकात्म्य विरोधाद्, वाधानुपपत्तिप्रसङ्गाच, नाप्यसत्त्वेन, वस्त्व न्तरमेवहेि वस्त्वन्तरस्यासत्वमास्थीयते, नचारोपितेय टी०-सिद्धान्ती स्वाभिप्रायमाविष्करोति –“हन्तैतदात्म्यावभा सेोपि ? इति । शङ्कत पूर्ववादी-“सत्यम्' इति । इदमाकारास्यदरजतयो रन्योन्याभावात्मनो सतोरिति यावद्, तदात्मना==अन्योन्याभावा त्मना, अमृ=इदङ्कारास्पदरजते यद्ययं प्रत्ययो गोचरयेत्, तदा न विभ्रमो नापि वाध्यत, अन्योन्यात्मना तु गोचरयतीति विभ्रमो तदेतद्विकल्प्य दूषयति-“हन्तेयम्' इति । भवतु वस्त्व न्तरमव वस्त्वन्तरस्यासत्वं तथापि को दोष इत्यत प्राह-**नच
पृष्ठम्:न्यायमकरन्दः.djvu/९१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति