न्यायमकरन्दे मू०-थान्यत्राप्यभावे कथमिदमन्यत्रापि न वाध्येत, अत्रैव तु तदपवाधदर्शनादर्थीदन्यत्र सत्त्वोपपतिरिति चेद्, मैवम् , अप्राप्ततयाप्यन्यत्रावाधोपपौ तत्र सत्ता ध्यवसायायोगाद्, । अथ नेदं रजतमितीदंकारास्पद्रजततादात्म्यमात्रनि षेधात्मा वाधानुभवो रजतमर्थात्कापि परिशिनष्टि, इति, तदपि वाधवृत्तान्तनभिज्ञस्य भाषितं, वाधावबोधो हीदमितिप्रतिपङ्करजतानुवादेन तद्रूपमेव विलापयन्नु पजायते न्तु तादात्म्थमात्रं । यत्र हेि तादात्म्यमात्रनिषेधस्तत्र वनस्पत्योरिव टी०-भवतु नामेह वाधाद्सत्त्वं तद्भावादन्यत्र सत्त्वमेवेति शङ्कते “अथान्यत्र” इति,। अर्थाद् इति=विशेषप्रतिषेधभ्य शंषाध्य नुझापूर्वकत्वादित्यर्थः । अर्थापत्तिमप्यन्यथाऽप्युपपत्या दूषयति “मैवम्” इति, । नायं रजतस्य वधः किन्तु तादात्म्यस्य तेनातदूरूपतया रजतमन्यत्रावशिष्यतेऽन्यथेदमिति प्रतीतिप्रयोगयोरनुपपत्तिारीिति शङ्कते “अथ नेद्म्” इति, । न यमिदन्ताया वाध किन्तु यदिदं रजतं तत्रेति प्रतिपन्नरजतस्यैव वाध इति परिहरति विनिगमनायां को हेतुरित्यत आह “यत्र हेि” इति,।
पृष्ठम्:न्यायमकरन्दः.djvu/९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति