पृष्ठम्:न्यायलीलावती.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावती प्रकाशः

नामध्यभावः सिद्ध्यति तर्हि मेलकिनामभावानामे कैकानामभावे विधीयमाने क्कचिद्वाधः क्वचित्सिद्धसाधनं द्रव्यत्वाभावाभावस्य गुणादौ बाधितत्वात् द्रव्ये तु सिद्धसाधनात् । अन्त्ये च मेलकोपादानवैयर्थ्ये प्रत्येकमिति च व्यर्थे न हि मिलितासु व्यक्तिषु षट्कविच्छेदमेलकः पदार्थान्तरस्वीकारापातात् । अथ व्यासज्यप्रतियोगिकोऽयमन्य एवाभावो घटवत्यपि घटपटौन स्त इत्यनुभवात्, यत्र च स्वाभावमात्र प्रतियोगिकोऽभावस्तत्रैवाभावाभावस्य भावरूपत्वम्, तन्न व्यासज्यवृत्तिधर्मसमानाधिकरणप्रत्येक पर्यवसित प्रत्येक प्रतियोगिताका-

न्यायलीलावतीप्रकाशविवृतिः

वैयर्थ्य मिति । षट्त्वावच्छिन्नमपि द्रव्याद्येव तत्र च मिलितायोगासत्त्वादिति भावः । पदार्थान्तरेति । मिलितव्यक्तीनां पदार्थान्तरत्वापातादित्यर्थः । यथा घटवत्यपि घटपटोभयामावस्तथा द्रव्यत्वाद्यत्यन्ताभावादिमत्यपि बण्णामभावानां निषेध इति न बाधसिद्धसाधने इत्याशङ्कते- अथेति । ननु षडभावाभावसत्त्वे प्रत्येकं षड्लक्षणापत्तिरभावाभावस्य भावत्वादत आह --यत्र चेति [१] । अव्यासज्यवृत्ति प्रतियोगिताकस्यैवाभावाभावस्य भावात्मकत्वमिति भावः । प्रतियोगितावच्छेदकावच्छिन्नेनैव च सममभावस्य विरोधो न प्रतियोगिमात्रेणान्यथा विशिष्टाभावोऽपि न स्यादिति पूर्वपक्षितुराशयः । प्रतियोगिता स्वरूपसम्बन्धात्मिका प्रत्येकपर्यवसितेति प्रत्येकस्यैव विरोधित्वं प्रतियोगिताया विरोधित्वरूपत्वादित्यभिप्रेत्याह-व्यासज्यवृत्तीति ।


एतावता तादृशधर्म्माश्रयाणा द्रव्यत्वाद्यमावानामभाव साध्य इति पर्य्यवसितम् । तत् किं द्रव्यत्वायभावत्वेन साध्यता किं वा ताद्वशधर्म्मावच्छिन्नप्रतियोगिताकाभावत्वेन तत्र ताद्वशो धर्म्मः त्येकपर्य्यवसितवृत्तिर्व्यासज्यवृत्तिर्वा विवक्षित: ? तत्राद्यं निराकरोति तहति । पक्षतावच्छेदकावच्छेदेन साध्यसाधनेऽशंतो बाधः, सामानाधिकरण्येन तथात्वेऽशंत: सिद्धसाधनं, द्वितीये त्वप्रासीद्धिः,तृतीयं पुनरवलम्ब्य वक्ष्यति — "भावत्वं वा षड्लक्षणाभावषट्काभावव्याप्यमिति ।" षट्काभावः षट्त्वावच्छिन्त्रप्रतियोगिकाभावः । स पुनरतिरिच्यतां न वेत्यन्यदेततत् । व्युत्पादितं च व्यासज्ववृत्तिधर्म्मस्य प्रतियोगितावच्छेदकत्वमनुमानदीधितौ । यद्वा यत्किञ्चिदेक धर्मिघटितसम्बन्धेन तदभावो विवाक्षितः, धर्म्मिसामान्यघटितसम्बन्धेन वा ? आघं निराकरोति–तहीति । द्वितीये त्यप्रसिद्धिरिति । - इति दीधितिः ।


  1. ननु षट्त्वावच्छिन्नप्रतियोगिताकस्य द्रव्यत्वाद्यभावस्यातिरिक्तत्वेऽत्यन्ता भावाभावस्य भावत्वनियमो व्याहत इत्यत आह - यत्र चेति । इत्यपि कश्चित् ।