पृष्ठम्:न्यायलीलावती.djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता

न्यायलीलावती प्रकाश्विवृतिः

गतधर्म्मपक्षता । षड़लक्षणावच्छेद्यं च षड्लक्षणत्वावच्छेद्यत्व मन्यथा षड्लक्षणानामेव प्रतियोगितयाऽसङ्गत्यापत्तेः । अभावे षड्लक्षणाभाव इत्यनुभवाद्बाध इत्यत उक्तं भाववृत्तीति । तञ्चभावविशेषणम् । न च षट्त्वावच्छिन्नात्यन्नान्तभावो द्रव्येऽपिवर्त्तत एव एकसत्वेऽपि द्वयमिह नास्तीतिप्रतीतेस्तथा च बाघ इति वाच्यम्, तस्य पूर्वमेव दूषितत्वात् । न चैवं भाववृत्तीति व्यर्थ सप्तमभावानिषेधश्च पट्त्वस्य प्रतियोगितानवच्छेदकत्वादिति वाच्यम् प्रतियोगितापरं न व्यासज्यवृत्तिरिति घटशून्ये द्वित्वावच्छिन्नविग्हवत् षट्शून्ये षट्त्वावच्छिन्नाभावाविरोधात् । अत एवाधिकरणभेदेनाभावभेदाभावात् । स एवाभावोऽभावेऽपीति भाववृत्तिपदोपादानेऽपि दोषतादवस्थ्यमित्यपास्तम् । भावेऽन्यतरप्रतियोगिसत्त्वेन तदनभ्युपगमात् । ननूक्तानुगतधर्मस्यापि भावघटितत्वाद्विकल्पस्तदवस्थः, न च भावत्वसमाधिकरणाभावप्रतियोगित्वं धर्मीति वाच्यम्, भावत्वसामानाधिकरण्यं हि भावत्वाधिकरणाधिकरणत्वमिति विकल्पग्रासतादवस्थयात् | मैवम् । व्यक्तिघटितत्वेऽपि सामान्येन रूपेण तत्प्रवेशे दोषाभावात् । अन्यथा कर्त्तुजन्यत्वानुमानेऽपि प्रसिद्धाप्रसिद्धकर्त्तृघटितत्वविकल्पेन साध्यस्य [१] बाधाप्रसिद्ध्यन्यतरापत्तः । एवं च मूलमपि सम्यगेव पक्षतावच्छेदकोभयसिद्धत्वे पक्षविकल्पस्यादोषत्वात् अन्यथा साध्य तदभाववत् पक्षविकल्पस्यापत्तेरिति । व्यासज्यवृत्तिधर्मः क्वापि प्रतियोगितावच्छेदको न भवतीतिमते लक्षणान्तरमाह - यद्वेति । अभावपदमन्योन्याभावपरम् । यद्यपि भाववृत्यभावपञ्च कस्यैवाभाववृत्तितया तत्सामानाधिकरण्यं द्रव्यत्वाभाव अस्त्येवाधिकरणभेदेनाभावभेदाभावात् तथापि भावरूपाधिकरणावच्छेदेनाभावपञ्चकसाहित्यं द्रव्यत्वाभावे निषेध्यमिति भावः। द्रव्यत्वं वेति । भाववृत्तित्वावाच्छन्नगुणाद्यन्योन्याभावपञ्चकव्यापकमित्यर्थ: [२] । भावत्वं वेति । ननु षण्णामभावानां षडेव वाऽभावा व्यापकतया विवक्षिताः षट्त्वावच्छिन्न प्रतियोगिक एक एव वाऽभावस्तथा । नाद्यः । द्रव्यादौ गुणाद्यभावाभावा [३]


  1. साध्ये तस्येति पाठान्तरम् ।
  2. द्रव्यत्वत्वं न तादृशाभाषप्रतियोगितावच्छेदकमिति वार्थ ।
  3. गुणत्वाद्यभावाभावेति पाठान्तरम् ।