पृष्ठम्:न्यायलीलावती.djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
न्यायलीलावती


णवदेव भावजातीयं मेयं [१] वाच्यमेवेतिवत् अयोगव्यवच्छेदस्य


न्यायलीलावतीकण्ठाभरणम्

लक्षणवत्त्वं षोढ़ा लक्षणवत्त्वमेको धर्म्मः स च प्रत्येकलक्षणवत्वेनैव षण्णां भावानां नवानां गुणवत्वमिव प्रत्येकगुणवत्तया तदयोगश्चाभावे प्रसिद्ध इह भावजातीये व्यवच्छिद्यत इत्यर्थ: । ननु विशेषस्य भावजातीयस्थाव्यभिचारे षड्लक्षणवत्त्वस्य कथं विशेषणत्वम् ? न चेद्विशेषणत्वं तदा तत्सङ्गततया एवकारस्य कथमयोगव्यवच्छेदकत्वम् ? विशेष्यं व्यभिचारि चेत् तदा ससैव भावा इत्यतोऽनुरूपं दृष्टान्तमाह - प्रमेयं वाच्यमेवेतिवदिति । उपरञ्जकत्वेऽपि न दोष इत्यर्थः । तथापि दृष्टान्ते कथं अयोगस्याप्रसिद्धस्य व्यवच्छेद इति चेन्न विशेव्यतावच्छेदकधर्म्मस्य विशेषणतावच्छेदकधर्मव्याप्यत्वस्यैवात्र एवकारार्थत्वात् दार्ष्टान्तिकेऽपि तथात्वात् अयोगव्यवच्छेदार्थक-

न्यायलीलावती प्रकाशः

रोपस्य हेतुत्वे मानाभावः, इदमिदं न नेदमिहेत्यनुभवस्यैव मानत्वात् । यद्वा आरोपितरजतत्वायामेव शुक्रौ नेंदं रजतमिति रजतत्वाभावः प्रतीयते नान्यत्रेत्यन्वयव्यतिरेकयोस्तत्त्वात् । ततश्चेति । भावाभावभेदात् पदार्थविभाग आर्थ: भावविभागः शाब्दः । तथा चाभावे षड्लक्षणाभावः प्रसिद्धो भावेषु निषिध्यते इति नाप्रसिद्धिः । प्रमेयमिति ।

न्यायलीलावतीप्रकाशविवृतिः

सत्वेन व्यभिचारात । नान्त्यः । व्यासज्यवृत्तिप्रतियोगिताकाभावानभ्युपगमादिति चेत्, न । षड्लक्षणाभावषट्कनिष्ठाघेयत्वनिरूपिताधारत्वाभावव्याप्यं भावत्वमित्यर्थात् । द्रव्येऽभावपञ्चकसत्त्वेऽपि तदाघेयता न षट्त्वेनावच्छिद्यते अतिरिक्तवृत्तित्वात् षट्त्वस्य । अभावे तु तदाधेयता षट्त्वेनैव व्यासज्यवृत्तिधर्मस्य अभावप्रतियोगितानवच्छेदकत्वेऽपि आधेयतावच्छेदकत्वाविरोधात् । व्यासज्या [२] वृत्तिप्रतियोगिता काभाववादिमतेनैवेदमित्येके । इदमिदं नेति । इतरसामग्रीतौल्येऽपि कदाचिद्धटान्योन्याभावस्य कदाचिद्धत्वात्यन्ताभावस्य प्रतीतेरभेदेन घटारोपस्य संसर्गेण घटत्वारोपस्य च कारणत्वमित्यर्थः । यद्वेति । यद्यपीदं न सर्वत्रानुभवसिद्धं तथापि क-


  1. प्रमेयमिति प्रकाशादिधृतः पाठः ।
  2. व्यासज्यवृत्तीद्वतीयपुस्तके पाठः।