पृष्ठम्:न्यायलीलावती.djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


पदार्थान्तरे भावत्वं नास्तीत्यन्ययोगव्यवच्छेदस्य वा विभागार्थत्वात् ।

 अभावस्य च समानतन्त्रसिद्धस्याप्रतिषिद्धस्य न्यायदर्शने


न्यायलीलावतीकण्ठाभरणम्

त्वं च समभिव्याहारबलप्रतीयमानमादायेति विवक्षितत्वात् । पदार्थान्तर इति । षड्लक्षणवदेव भावजातीयं नान्यदित्यम्ययोगव्यवच्छेदोऽपि सम्भवतीत्यर्थः । ननु भावजातीयत्वेन षण्णामेवाभिधाने सिद्धसाधनमन्यथा चाप्रसिद्धिरेवेति चेन्न गुणवदेव द्रव्यमित्याद्ययोगव्यवच्छेदस्यापि एवमप्यनुपपन्नत्वप्रसङ्गात् । द्रव्यत्वनियतसामानाधिकरण्यबोधनमेवायोगव्यवच्छेद इति चेत् तुल्यं प्रकृतेऽपि । इदमत्राकूतम् -- पदार्थो द्विविधो भावोऽभावश्च । षोढा द्रव्यादिरिति विभक्त्तविभागे भावत्वं षड्लक्षणवत्त्वानधिकरणानधिकरणत्वम्। भावत्वं च सत्तासम्बन्धित्वं सत्तासंम्बन्धश्च समवायेन त्रयाणामेकार्थसमवायेन सामान्यविशेषयोः स्वरूपसम्बन्धेन सत्तासमवाययोरविशिष्टः । ननु विभक्तविभागश्चेदयं तदाऽभावविभागो न श्रूयते इति तं समर्थयति ——अभावस्येति । ‘तेषु न लक्षितलक्षणात्वा' दित्यादिसूत्रे न्यायदर्शने समानतन्त्रेऽभावस्य व्युत्पादितत्वादत्र च तद्प्रतिषेधात् परमतमप्रतिषिद्धमनुमतमितिन्यायेन सूत्रकृतस्तत्राभ्युपगमोन्नयनात् । न्यायेति । यथा गोतमेन मनस इन्द्रियत्वं नोक्तमप्रतिषेधादयुगतं चेत्यर्थः । तर्हि अप्रतिषेधादन्यत्राभ्युपगमोऽस्तु किं पदार्थान्तरव्युत्पादनेनेति न शङ्कनीयम्, द्रव्यादिपदार्थानामुद्देशलक्षणपरीक्षारूपं शाब्द (स्त्र?) मेवेदं पृथक् न स्यात्, तथा च तत्त्वज्ञानार्थताभङ्गो निःश्रेयस हेतुताप्यस्य

न्यायलीलावतीप्रकाशः

प्रमेयत्वसमानाधिकरणात्यन्ताभावप्रतियोगि न वाच्यत्वमित्यर्थः । वाच्यत्बायोगस्याप्रसिद्धेः । पदार्थान्तरे अभाव इत्यर्थः । ननु चाभावस्य सूत्रकारेणाविभजनादप्रामाणिकत्वमेव तस्यानुमीयते [१] तत्कथं तत्रायोगप्रसिद्धिरित्यत आह - अभावस्य चेति । न त्वेवं द्रव्यादीनामध्यनभिधानं प्राप्तम्, तेषामपि समानतन्त्रेऽभिधानादित्यत आह-


  1. तदनुमतमित्युनीयते इति पाठान्तरम् ।