पृष्ठम्:न्यायलीलावती.djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
न्यायलीलावती


मानसेन्द्रियतासिद्धिवदत्राप्यविरोधात् अभ्युपगमसिद्धान्तसिद्धन्वात् ।

 नीलं रूपमिति प्रतीतिश्च तमोविषयिणी यद्यपि अपसारितबाधा तदा [१] रूपमेव तमो, न द्रव्यादिवैधर्म्यम् । अथ


न्यायलीलावतीकण्ठाभरणम्

भज्येत, न हि परमताभ्युपगममात्रेणैव तन्निर्चहेत् । अभ्युपगमेति । सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तानां मध्येऽभ्युपगमसिद्धान्तस्यापि समानतन्त्रोक्तत्वादित्यर्थः ।

 तमसः पदार्थान्तरत्वं निरस्यति -- नीलं रूपमिति । नीलं रूपं तम इतिप्रतीतिर्नीलरूपं तम इति वा । आद्यमाह - नीलमिति । द्वितीयमाह -

न्यायलीलावतीप्रकाशः

अभ्युपगमेति । द्रव्यादिविभागाकरणे पृथक्शास्तूत्वानुपपत्तिः । न च तत्तदनभ्युपगतपदार्थनिषेधप्रणयनेन तदुपपत्तिः कल्पनागौरवापत्तेः । विनिगमकं च भावनिरूपणाधीननिरूपणत्वमवसेयमित्यर्थः ।

 तमसो भावान्तरत्वं दूषयति - नीलमिति । तदारोप एवेति । तथा च न ततो विषयसिद्धिरबाधितबुद्धेरेव तत्सिद्धेरित्यर्थः । स्वप्नावभा

न्यायलीलावतीप्रकाशविवृतिः

चिदन्वयव्येतिरकाभ्यां बाधकं विना सामान्यतः कारणत्वकल्पनेऽन्यत्राप्याहार्यारोपकल्पनमिति भावः । वस्तुतः प्रतियोग्यारोपस्यानुगतस्याभावप्रमां प्रति गुणत्वेन हेतुत्वेन यद्विशेषयोरितिन्यायात्सामान्यहेतुतति कल्पनेति विशेषनिषेधो लघुः विशेषनिषेधेन च शेषविधिर्गुरुर्निषेधप्रतिपादनस्योभयगर्भत्वादित्यर्थः । तर्ह्यभाव एवाभिधीयतां शास्त्र भावस्यैव चाभ्युपगमंसिद्धान्तत्वमस्त्वित्यत आह-विनिमग कं चेति । तत्रापि लाघवमेव चिनिगमकमिति भावः । मुलोतयुक्त्या तमस आलोकाभावत्वा सिद्धावपि भावान्तरत्वनिषेधः सिद्धयत्येवेत्याशयेनाह -- तमसो भावान्तरत्वमिति । ननु चलतीतिवुद्धिरेव भावत्वसाधि-


  1. नीलमित्यधिकः पाठः कराठाभरणसम्मत प्रनीयते ।