पृष्ठम्:न्यायलीलावती.djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
न्यायलीलावतीकण्ठाभरण-सचिवृतिप्रकाशीद्भासिता


सम्भवब्दाधा तदा आरोप एव, स्वन्पावभातनीलिमवत् । अथ रूपाश्रयत्वबुद्धिस्तमसि तदा वाधावाधाभ्यां न पदार्थान्तरत्वम् ।

 क्षणावच्छेदकश्चोपाधिरन्त्यशब्द एव । स चोपान्त्यशब्दना-

न्यायलीलावती कण्ठाभरणम्

अथ इति । बाधाबाधाभ्यां प्रकारान्तराभावादित्यर्थः । न चावाधितनीलरूवत्वप्रतीत्या जलाद्यटकभेदसिद्धौ निर्गन्धत्वेन पृथिवीभेदादू दशमं द्रव्यमिदमिति वाच्यम्, इदानीं पदार्थान्तरत्वमात्रस्यैव निरसनीयत्वेनाभिमतत्वात् द्रव्यत्वेऽपि प्रकृतविभागव्याघाताभावात् साधयिष्यते चाभावत्वमस्मेति भावः ।

 क्षणावच्छेदकोपाधिना प्रसक्तं पदार्थातिरेकं परिहर्त्तुमेकदेशिमतमुपन्यस्यति - क्षणेति । शब्दाजनकत्वं शब्दस्यान्त्यत्वम् । ननु कथमस्य क्षणावच्छेदकत्वमत आह --स चेति । चो हेतौ नाशसामग्रीसमवहितस्यैव तस्योत्पादात् क्षणमात्रस्थायित्वं तस्येत्यर्थः । उत्पादकसामग्रयेव यदि विनाशिका तदाऽन्त्यशब्दोत्पादनाशयोर्यौगपद्यमापत्रमित्या-

न्यायलीलावतीप्रकाशः

तेति नीलभ्रममात्रोपलक्षणम् । तदा बाधेति । नीलरूपवत्प्रतीतिर्यद्यबाधिता तदा पृथिव्येव तमः, अथ बाधिता तदान ततो विषयसिद्धिः । न च ततोऽन्यत्तस्य भावत्वसाधकमस्तीत्यर्थः । वस्तुतस्तत्र बाधकमेव वक्ष्यत इति भावः ।

 अन्त्य इति । शब्दाजनक इत्यर्थः । स चेति । चो हेतौ ।

न्यायलीलावतीप्रकाशविवृतिः

केत्यत आह --वस्तुत इति । तथा चालोकाभाव एव तम [१] इति भावः ।

 महाप्रलयानङ्गीकर्त्तृमते अन्त्यशब्दाप्रसिद्धेराह - -शब्दाजनक इति ।


  1. " न चैवमस्माभिरभ्युपगम्यते तम शब्द निर्विषय इति । तम-शब्दस्य सविषयत्वे सूत्रव्याघातः । द्रव्यगुणकर्म्मनिष्पत्तिवैधर्म्माद् भाभावस्तम इति । न सूत्रार्थापरिज्ञानात् निराकृततेज सम्बन्धीनि द्रव्यगुणकर्माणि तमःशब्देनाभिधीयन्ते तस्मान सूत्रव्याघातः ।" -इति न्यायवार्त्तिककाराः ।  "तस्माद् रूपविशेषोऽयमत्यन्तं तेजोऽभावे सर्वतः समारोपितस्तम इति प्रतीयते ।" - इति न्यायकन्दलीकृतः ।  “अन्धकारस्तु तेजोविशेषसामान्याभावः ।" - इति सामान्यलक्षणायां दीधितिकाराः । अत्र जगदीश — "तेजोविशेषति । महाप्रभात्वावच्छिन्नाभाव इत्यर्थः । उद्भूतानमिभूतरूपवन्महातेजः- सामान्याभावस्तु नार्थः, अनुद्भूतत्वाभावाघात्मकस्योद्भूतत्वादेरतीन्द्रियतया तद्धटितधर्म्मावच्छिन्नाभावस्यायोग्यत्वेन प्रत्यक्षायोगात् ।"