पृष्ठम्:न्यायलीलावती.djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
न्यायलीलावती


श्यः। न च तस्यैवोत्पादनाशहेतुत्वे युगपद्विनाशोत्पादप्रसङ्गः, अन्त्यशब्दसहकृतस्यैव तस्य नाश हेतुत्वात् । एतेन प्रध्वंसाहेतुकत्वमपास्तम् । अत्र च टीका- 'यथान्त्य उपान्त्येन' इति कार्यकारणविरोधिव्याख्यानावसरे इत्येके | तन्न । एवं सति ज्ञानादिषु द्वि-


न्यायलीलावतीकण्ठाभरणम्

शङ्क्याह-न चेति । विनाशसामग्यां प्रतियोगिनोऽन्त्य शब्दस्यापि प्रवेशात् तद्विलम्बात् क्षणमात्रं विलम्ब इति न यौगपद्यमित्याह -- अन्त्येति । ननु क्षणिकस्यैव भावी विनाश इति किन्तस्य कारणान्तरापेक्षया तथा चाहेतुक एव तद्विनाशोऽस्त्वित्यत आह - एतेनेति । प्रध्वंसस्याहेतुकत्वमपास्तमित्यर्थः । नाशहेतोरुपान्त्यशब्दस्य प्रतियोगिनश्च प्रामाणिकत्वादिति भावः । एकदेशी स्वोक्ते "गुणकिरणावली”. कारसम्मतिं दर्शयति - अत्र चेति । 'टीका' किरणावली । ननु तत्र नैतदुक्तमित्यत आह—कार्येति । कार्यस्य कारणं विरोधीति पाकजप्रक्रियायामेक एवाग्निसंयोगो रूपादिकमुत्पादयिष्यति नाशयिष्यति चेति दर्शयता यथा अन्त्य उपान्त्येनेति दर्शितमित्यर्थः । एवमिति । अन्त्यशब्द आकाशवृत्तिर्ज्ञानादिकं नावच्छिन्द्यादित्यर्थः । ननु व्यधिकरणोऽपि

न्यायलीलावती प्रकाशः

तथा च नाशकसमवहितस्यैव तस्योत्पादादुत्पत्त्यव्यवहितो रक्षण एव नाशानानेकक्षणावस्थयित्वमित्यर्थः । अत्यशब्देति । ध्वंसे प्रतियोगिनो हेतुत्वादिति भावः । एतेनान्त्यशब्दसहितोपान्त्यशब्दनाशकत्वेन | [ प्रध्वंसाहेतुकत्वमिति । प्रध्वंसस्य अहेतुकत्वं प्रतियोग्यतिरिक्तकारणानपेक्षत्वमर्थः । अपास्तमिति । उपान्त्यापेक्षणादिति ] 'टीका' गुणकिरणावली । तत्र पाकजप्रक्रियायामेकस्योत्पादक- त्वनाशकत्वे यथोपान्त्यस्यान्त्ये इत्युक्तम् । क्वचित्कार्यकारणाविरोधीति पाठः । तत्राविरोधिनं दर्शयित्वा तद्विरुद्धत्वेन कार्यकारणविरोधोऽपि दर्शित इत्यवसरार्थः । एवं सतीति । अन्त्यशब्दाप्रतिसन्धानेऽपि [१] क्षणव्यवहारादन्य एवायमुपाधिर्वाच्य इत्यर्थः । ननु तत्रापि नोपाधेर-

न्यायलीलावतीप्रकाशविवृतिः

एतेनेति । हेतुद्वयसुचनायोभयोपादानम्, दार्ष्टान्तिकाभावे दृष्टान्तानुप-


  1. तदप्रतिसन्धानेऽपीति दीधित्यनुसारी पाठः ।