पृष्ठम्:न्यायलीलावती.djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


त्रिक्षणावस्थायित्वव्यवहारो न स्यात् । देशान्तरोदीरितान्त्यशब्दोपाधिकोऽसाविति चेन्न, उपाधेरनिश्चयेनान्यत्र निश्चयेन व्यवहारानुपपत्तेः । अवष्टब्धदेशविभागाभावोपहितः सूर्यपरिस्पन्द इत्यन्ये। स्पन्दस्य स्वरूपाभेदेऽपि विभागाभावविभागतत्पूर्वसंयोगनाशोत्तरसंयोगात्मकोपाधिचतुष्कान्यतमः क्षणव्यवहारहेतुरित्यपरे । तथा च टीका - 'निमेषस्य चतुर्थो भागः क्षण' इति । तन्न ।


न्यायलीलावतीकण्ठाभरणम्

शब्द: कालद्वाराऽवच्छेतूस्यतीत्याह- देशान्तरेति । उपाधिनिश्चयाधीन उपहितप्रत्ययस्तदनिश्चयेन कथं तत् स्यात् तन्निश्चयश्च न प्रत्यक्षादिनेत्याह – उपाधेरिति । मतान्तरमाह - अवष्टब्धेति । विभागाभावोऽत्र विभागप्रागभाव उक्त इति स्फोरणार्थमवष्टब्धेति । अवष्टब्धः संयुक्त इत्यर्थः । स्वजन्यविभागप्रागभावावच्छिन्नः सूर्य्यपरिष्पन्दः कालमवच्छिद्य ज्ञानादौ क्षणिकत्वव्यवहारं करोतीत्यर्थः । अवान्तरप्रलये क्षणगणनास्ति न तु सूर्य्यपरिष्पन्द इत्यनुशयेन मतान्तरमाह-स्पन्दस्येति । स्वजन्यविभागप्रागभावाच्छिन्नः स्पन्द: स्वनाश्यसंयोगसमवहितो विभाग उत्तरसंयोगप्रागभावसहितः पूर्व्वसंयोगनाशः स्वनाश्यकर्म्मसहित उत्तरसंयोग इति चत्वार उपाधय इत्यर्थः । प्रलये

न्यायलालीवतप्रिकाश:

भाव इत्याह -- देशान्तरेति । स्वरूपसन्नेवोपाधिर्न क्षणव्यवहारहेतुः किन्तु तन्निश्चयः स नास्त्येवेत्याह - उपाधेरिति । अवष्टब्धेति । अवष्टब्धः संयुक्तो देशस्तस्य विभागाभावः। अवष्टब्धग्रहणात् न प्रागभावरूपस्तदुपहितः। तथा च स्वजन्यविभागप्रागभावविशिष्टः [१] स्पन्दः क्षणोपाधिस्तस्यैकक्षणमात्रस्थायित्वादित्यर्थः । न चैवं विभागोत्पत्तौ तन्नाशात् क्षणव्यवहारो न स्यात् प्रलयकाले च रखेरभावादतो मतान्तरमाह - स्पन्दस्येति । संयोगनाश इत्यत्रोत्तरदेशसंयोगप्रागभावसहित

न्यायलीलावतीप्रकाशविवृतिः

पत्तौ यथेत्ययुक्तमतस्तदुपदर्शयति-तत्र पाकजेति । अवष्टब्धेति । अनेन


  1. स्वजन्येति । विभागस्याव्याप्यवृत्तित्वात् । आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकस्य कर्मणोऽवयवान्तरनाशाद् विभागना शेऽप्यनुवृत्तेश्वोक्तं प्रागभावेति । इति दीधितिः ।