पृष्ठम्:न्यायलीलावती.djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
न्यायलीलावती


त (अ.) त्राभावस्वरूपं वोपाधिः, कर्मस्वरूपं वा, तयोः संवन्धो वा । नाघौ । तयोरनेककालव्यापित्वात् । नान्त्यः (न तृतीय: ? )। तस्या-


न्यायलीलावतीकण्ठाभरणम्

चाणुकमेण एव उपाधित्वादिति भावः ।

 [स्पन्दस्येति । संयोगनाश इत्यत्र उत्तरदेशसं योगप्रागभावसहित इति शेषः । कर्म्मणः स्वजन्यविभागप्रागभावसहितस्य, विभागस्य स्वनाक्ष्यसंयोगसहितस्य, संयोगनाशस्य च उत्तरदेशसंयोगप्रागभाववतः, कर्म्मणश्च स्वजन्योत्तरसंयोगसहितस्य क्षणावच्छेदकोपाधित्वम्, न झुक्त्तर्योद्वयोः पूर्व्वापरकालताधीसम्बन्ध इत्यर्थः प्रलये चाणुकर्म्मणस्तथाभाव इति भावः |] निमेषोऽक्षिपक्ष्मस्पन्द एकः । अभावस्वरूपमिति । विभागप्रागभावस्वरूपम् । उपलक्षणं चैतत् पूव्र्वसंयोगनाशादयोऽपि त्रयो द्रष्टव्याः । न तृतीय इति । तृतीयपक्षस्यापि पूर्व्वदोषणैव दुष्टत्वे पृथक् दोषाभिधानं तदुभयस्वरूपस्थैर्य्याधीनमेव तदुभयसम्बन्धस्यापि स्थैर्य्यमिति कृत्वा । ननु तदुभयस्वरूपाद्न्य एव तदुभयसम्बन्धः क्षणमात्रस्थायी कश्चित्

न्यायलीलावतीप्रकाशः

इति शेषः । कर्मणः स्वजन्यविभागप्रागभावसहितस्य विभागस्य स्वनाश्यसंयोगसहितस्य संयोगनाशस्य चोत्तरसंयोगप्रागभाववतः, कर्मणः स्वजन्योत्तरसंयोगसहितस्य क्षणावच्छेदकोपाधित्वं न झुक्तयोर्द्वयोर्द्वयोः पूर्वापरकालभावी सम्वन्ध इत्यर्थः । प्रलये चाणुकर्मणस्तथाभाव इति भावः । दूषयति — अत्रेति । तस्येति । स्वरूपमेव तयोः सम्बन्धस्तञ्चानेकक्षणवृत्त्येवेत्यर्थः ।

न्यायलीलावतीप्रकाशविऋतिः

दि स्वनाथ्यसंयोगसमानकालत्वं विभागाभावस्य सूचितमिति स प्रागभाव एव पर्य्यवस्यतीति भावः । अन्यविभागप्रागभावोपधानमन्यदापीति विशेषयति — स्वजन्येति । संयोगनाश इत्युपलक्षणम्, विभागः स्वनाश्य संयोगसहित इत्यपि द्रष्टव्यम् ।