पृष्ठम्:न्यायलीलावती.djvu/११

एतत् पृष्ठम् परिष्कृतम् अस्ति
भूमिका।


चान्यन्त्रादृष्टचरी विशेषतो विदुषां रुचिकराति वदामः । तथा चार्वाकमतखण्डनद्वाराऽनुमानप्रामाण्यव्यवस्थापने संक्षेपत उदनाचार्योक्तानुपाधित्वरूपव्याप्तेः पूर्वपक्षीयैकमात्रव्याप्तेश्च निरासपूर्वकं कार्त्स्न्येन साधनस्य साध्यसंबंधरूपव्याप्तिस्वरूपस्य निरूपणे तज्ज्ञापकानुपाधिकत्वकथनेऽप्यतिप्राचीना प्रौढयाच्याच निबन्धनशैली गंगेशोपाध्यायकृतामतिविस्तृतां व्याप्तिनिरूपणरीतिमप्यतिशेतेऽतो गङ्गेशोपाध्यायावल्लभाचार्याः पूर्वकालीना इत्युक्तौ न किञ्चिदप्यसमञ्जसं स्यात् । तत्र तावल्लालावतीनिबद्धस्य 'नापि साध्याभावविरोध' (पृ० ५०० ५०१) इत्येकपूर्वपक्षिव्याप्तिनिरूपणस्यैव कृत्स्नः पूर्वपक्षिव्याप्तिसमुदायो गंगेशोपाध्यायेन स्वमतिवैभवेन प्रसारितोऽन्ते चानौपाधिकत्वरूपव्याप्तिस्थापनं टीकाकूदभिमतोक्तविधव्याप्तिनिरासश्चोभयत्रापि समान इति च न्यायलीलावतीं निभृतमवलंब्यैवांशोऽयमेतावतीं दुरूहतां नव्यशैल्या प्रापित इति प्रतिभाति । यतस्तत्पुत्रेण वर्धमानोपाध्यायेन न्यायलीलावतीकारप्रदर्शितस्य का पुनर्व्याप्तिः ? साधनस्य साहित्यं कार्त्स्न्येना ( पृ० ४९६ पं० १) इति ग्रन्थस्य व्याख्यानं विदधता 'नन्वेकव्यक्तिकव्याप्तौ न कार्त्स्यार्थः, अनेकव्यक्तिकेऽपि सक लधूमसम्बन्धस्य प्रत्येकं वह्नावभावः, अत एव न कृत्स्नेन साध्येन साधनस्य सम्बन्धो व्याप्तिः, विषमव्याप्ते तदसम्भवाच्चे (पृ० ४६६ २०१७) त्याद्यारभ्य सिद्धान्त्यभिमततदर्थप्रदर्शनपर्यन्तं, तत्त्वचिन्तामणौ तस्य 'नापि कार्त्स्न्येन सम्बन्धो व्याप्तिः एकव्यक्तिके तदभावात्, नानाव्यक्तिकेऽपि सकलधूमसम्बन्धस्य प्रत्येकवह्नावभावात, अत एव न कार्त्स्न्येन साध्येन सम्बन्धो व्याप्तिः विषमव्याप्ते तदभावाच्चे (क० मु० पु० पृ० ३ पं० २३ )त्यादिपाठस्यैव 'अत्रोच्यते' इत्यादिग्रन्थपर्यन्तं प्रायश आनुपूर्व्यैवोल्लेखः कृतः । एवं सिद्धान्तलक्षणीये-'यत्संबंधितावच्छे करूपवत्वं यस्य तस्य सा व्यातिः, तथाहि धूमस्य वह्निसम्बन्धित्वे धूमत्वमवच्छेदकं धूममात्रस्य वह्निसम्बन्धित्वात् , वस्तु धूमसम्बन्धे न वह्नित्वमवच्छेदकं धूमासम्बन्धिनि गतत्वात्, न ह्यतिप्रसक्तमवच्छेदकं संयोगादौ तथात्वादर्शनात्, किंत्वाद्रंन्धनप्रभववह्नित्वं धूमसंबन्धितावच्छेदकं, तादृशं च व्याप्यमेव । यद्वा यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेने समं तस्य सामानाधिकरण्यम्' (पृ० ४९८ ८) इत्यादिग्रन्थेन न्यायलीलावतीप्रकाशे प्रदर्शिते व्याप्ती अपि तत्वचिन्तामणिस्थ (क. मु० पु० पृ. ५-६ )सिद्धान्तव्याप्तिलक्षणद्वयादानुपूर्व्याऽक्रम समुद्धृते । व्याप्तिवत्तर्कविषयः सिद्धान्तोऽपि न्यायलीलावतीनिबद्धो चिन्तामणिसम्वादीति सूक्ष्मदृष्ट्या विचार्यमाणेऽवश्यं बुद्धिमारोहोतीति कृतमप्रासंगिकविचारेण ।

 एवमग्रेडपि वैशेषिकमतसिद्धप्रमाणद्वयस्थापनाय शब्दादिमानान्तरभङ्गनिरूपणे