पृष्ठम्:न्यायलीलावती.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


नेककालव्यापित्वे क्षणव्यवहारविरोधात् । एकक्षणावस्थायित्वे च क्षणिकत्वापत्तेः । समानाधिकरणो सूर्यसंयोगविभागावित्यन्थे । तन्न, एतद्रूपद्वयं वा क्षणोपाधिरनयोः सम्बन्धो [१] वा एतेषां मेलको वा । नाद्यौ । तयोरनेककालव्यापित्वात् । न तृतीयः ।

न्यायलीलावतीकण्ठाभरणम्

स्यादित्यत आह - एकक्षणस्थायित्व इति । न चापाद्याविशेषः स्वाधिकरणक्षणोत्तरानुत्तरत्वविशिष्टस्वाधिकरणक्षणाव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वेन स्वसमानकालीनकादाचित्काभावप्रतियोग्यसमानकालीनत्वस्यापादनात् । समानाधिकरणाविति । स्वनाश्यसंयोगसमानकालीनो विभागः स्वनाशकविभागसमानकालीनसंयोगो वेत्यर्थः । एवं च नातिप्रसंगः । एतद्रूपद्वयमिति । उक्तसंयोगविभागद्वयमित्यर्थः । एतेषामिति । संयोगविभागसम्बन्धानामित्यर्थः । तयोरिति । स्वरूप-

न्यायलीलावतीप्रकाशः

 एकेति । न चात्र साध्याविशेषः स्वसमानकालीनकादाचित्काभावप्रतियोग्यसमानकालीनत्वमेककालावस्थायित्वम्, क्षणिकत्वं च स्वाधिकरणक्षणोत्तरानुत्तरत्वविशिष्टस्वाधिकरणक्षणोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वमित्यर्थात् । समानाधिकरणाविति । स्वनाशकसंयोगसमानकालीनो विभागः स्वनाशकविभागकालीनश्च संयोग इत्यर्थः । तेन नातिप्रसङ्गः। सिद्धान्ती स्वपक्षे दोषमभ्युपेत्य पूर्वपक्षिणं क्षणिकपदार्थसिद्धौ

न्यायलीलावतीप्रकाशविवृतिः

 स्वसमानेति । अत्रात्यन्ताभावमादायासम्भववारणाय कादाचित्केत्यभावविशेषणम् । प्रतिक्षणं कस्यचिदुत्पत्तिरित्यादिसिद्धान्ताच्चेदं नेयम् । चरमध्वंसस्तु महाप्रलयानङ्गीकारानास्त्येवेति न तत्रातिव्याप्तिशङ्का, तत्स्वीकारे तु भावत्वमपि विशेषणम् । केचित्तु तदतिव्याप्तिवारणाय [२] कादाचित्काभावपदं प्रागभावपरमित्याहुः । तच्चिन्त्यम् । चरमक्षणिकाव्याप्तेः । स्वाधिकरणेति । स्वं लक्ष्यम् | अग्रिमप्रतीकमात्रं घटादावतिव्याप्तमिति विशिष्टपर्यन्तं चरमक्षणविशेषणम् । [३]


  1. 'यो: समवायो' वा ।
  2. 'व्याप्तेर्निरासाय' ।
  3. 'न तु प्रथमक्षणविशेषणमित्याधिक पाठो द्वितीयपुस्तके ।