पृष्ठम्:न्यायलीलावती.djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
न्यायलीलावती


तस्यैव क्षणिकत्वस्वीकारात् । सत्यं, किं पुनः क्षण [१] सिद्धौ


न्यायलीलावतीकण्ठाभरणम्

द्वयसम्बन्धयोरित्यर्थः । तस्यैवेति । मेलकस्यातिरिक्तस्य क्षणिकत्वस्वीकारप्रसङ्गादित्यर्थः । एकदेशिनां मते तु पूर्व्वपक्षिणोक्तानि दूषणानि अङ्गीकृत्य सिद्धान्ती पृच्छति--सत्यं कि पुनरिति । क्षणसाधकेनैव

न्यायलीलावतीप्रकाशविवृतिः

क्षणद्वयावस्थायिज्ञानादावतिव्याप्तिः स्वाधिकरणक्षणानुत्तरत्वमात्रे चासम्भव इत्युत्तरानुत्तरत्वपर्यन्तम् । न चाग्रिमस्वाधिकरणक्षणोत्तरपदवैयर्थ्य ध्वंसस्य प्राक्कालावृत्त्याऽर्थगत्यैव तल्लाभादिति वाच्यम्, ध्वंसपदस्य कादाचित्काभावपरतया प्रागभावमादाय कार्यमात्रातिव्याप्तरिति मिश्राः । केचित्तु ध्वंसपदं न स्वध्वंसपरं किन्तु सामान्यपरमिति [२] प्रागभावध्वंसात्मक घटादिप्रतियोगितया ध्वंसेऽतिव्याप्तिवारणाय तदिति वदन्ति । अत्र मिश्राः । घटध्वंसे पटो नेतिप्रतीत्याऽभावाधिकरणका भावान्तरानभ्युपगमेन घटध्वंस एव पटाभाव इत्यागतम् । एवं च पटोत्पत्त्यव्यवहितोत्पन्नघटध्वंसप्रतियोगिनि पटेऽतिव्याप्तिरिति ध्वंसपदस्य स्वध्वंसपरत्वावश्यकत्वे कथमुक्तातिव्याप्तिसम्भवो येन विशेषणमर्थवदिति दूषणं प्रयच्छन्ति । तश्चिन्त्यम् । अधिकरणान्तरस्वीकृतस्यैव पटात्यन्ताभावस्य घटध्वंसे पटो नेतिप्रतीत्या विषयीकरणे कुतो घटध्वंसस्य पटात्यन्ताभावात्मकत्वम् येन स्वध्वंसपरं ध्वंसपदमिति तस्य सामान्यपरत्वात् । यत्तु वृत्तिपदस्य व्यापकत्वमर्थ इति स्वकाले प्राक्काले च तदभावादसम्भववारणाय स्वाधिकरणक्षणोत्तरेति [३] । तन्न, तथा सति विशिष्टपर्यन्तव्यर्थता पत्तेः । चरमक्षणिकाव्याप्तिश्चैतन्मते तदनभ्युपगमादेव निरस्या । यत्तु चरमक्षण (पद?) स्य कालोपाधिमात्रवाचकतया महाप्रलयेऽपि चरमध्वंसात्मक कालोपाधिसत्त्वान्न तत्रातिव्याप्तिरिति मतम्, तदबोधात् । एवमपि स्वाधिकरणक्षणोत्तरत्वाप्रसिद्धेरिति ।


  1. 'क्षणिकसि' ।
  2. अत्र ध्वसंपदेन स्वपरसाधारणो भावाभावसाधारणो ध्वंसो विवक्षित इत्यर्थः ।
  3. विशेषण मित्यधिकं द्वितीयादर्शपुस्तके ।