पृष्ठम्:न्यायलीलावती.djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


मानं, क्षणवेदनम् । किं क्षणवेदनम् | अस्तमितपूर्वापर भाववस्तुवेदनं वा क्रियावेदनं वा [१] तदुभयसंसर्गवेदनं वा । नाद्यान्त्यौ । असिद्धेः । नापरौ । तयोः स्थिरत्वात् । नानाक्षणवार्तनो घटादय


न्यायलीलावतीकण्ठाभरणम्

प्रमाणेन तदवच्छेदक उपाधिरपि कश्चित् विषयीकर्त्तव्यः, स च परिगणितपदार्थ एवान्तर्भविष्यतीति न तदनुरोधेन पदार्थान्तरस्वीकार इति भावः । पूर्वपक्ष्याह -- क्षणवेदनमिति । प्रत्यक्षमेव तत्र प्रमाणमिति भावः । प्रत्यक्षस्यालम्बनं पृच्छति -- किमिति । अस्तमितेति । पूर्व्वापरभावः कार्यकारणभावः । तथा च तस्य न किञ्चित्कारणं न वा किञ्चित् कार्य्यं तादृशस्य जगद्विलक्षणस्य वस्तुनो वेदनमित्यर्थः । यद्वा स्वसमानकालीनकादाचित्काभावप्रतियोग्यसमानकालीवस्तुवेदनमित्यर्थः । क्रियावेदनमिति । सूर्य्यादिस्पन्दवेदनमित्यर्थः। तत्कार्येति । क्रियाकार्यो विभागस्तस्य प्रागभाव वेदनमित्यर्थः । तत्संसर्गेति [२] क्रियाविभागप्रागभावयोर्यः संसर्गस्तद्वेदनमित्यर्थः । नाद्यान्त्याविति। न जगद्विलक्षणं वस्तु न वा क्रियया सह विभागप्रागभावस्य संसर्गः केनचिन्मानेन विषयीक्रियते इत्यर्थः । तयोरिति । क्रियातजन्य विभागप्रागभावयोरित्यर्थः । ननु यदि क्षणवेदनं नास्ति तदा नानाक्षणवर्त्तिनो घटादय इतिविशि-

न्यायलीलावतीप्रकाशः

मानं पृच्छति - सत्यं किं पुनरिति । अस्तमितेति । स्वसमानकालीनप्रागभावप्रतियोग्यसमानकालीनवस्तुवेदनमित्यर्थः । क्रिया रूपन्दः तत्कार्यो विभागः । असिद्धेरिति । तादृशे वस्तुनि मानाभावात्प्रत्यक्षस्येन्द्रियसम्बन्धाधीनत्वात् उत्तरकाले विषयस्यासत्त्वात् तस्य च वर्त्तमानार्थग्राहित्वात् नाप्यनुमानं व्याप्तेरसिद्धोरित्यर्थः । ननु क्षणवेदनस्य न

न्यायलीलावतीप्रकाशविवृतिः

 यथाश्रुते व्योमादावतिप्रसङ्गोऽत आह - स्वसमानेति । तदुभयसंसर्गस्य तदुभयरूपत्वे तयोः स्थिरत्वादित्येव दूषणमतिरिक्तत्वे च तुल्य एवाद्यन्तयोर्दोष इत्यभिप्रेत्यासिद्धिं विवृणोति- - तादृश इति ।


  1. नत्कार्य्यप्रागभाववेदनं वा तत्संसर्गवेदनं वेत्येवं पाठः कण्ठाभरणादिसम्मतः ।
  2. तदुभयसंसर्गेति पाठ आदर्शमूलसम्मतः ।