पृष्ठम्:न्यायलीलावती.djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
न्यायलीलावती


इति प्रत्यक्षादेव क्षणनिरीक्षणमस्तीति चेन्न, क्रमिकसंयोगविभागायुपाधित एव तत्प्रतीतेः । अनुमानादस्तीति चेन्न, लिङ्गाभावात् । क्षणप्रयोगात्तदनुमानमस्तीति चेन्न, निरूपिते वस्तु-


न्यायलीलावतीकण्ठाभरणम्

ष्टानुभवाधीनोऽभिलाप एव न स्यात्, तथा च प्रत्यक्षादेव क्षणवेदनं कार्येण कारणमपीन्द्रिय सन्निकर्षाघुन्नेष्यत इत्याह --नानेति । अयं विशिष्टानुभवः क्रमवत्संयोगविभागव्यवच्छेदं घटस्य विषयीकरोति न तु त्वदभिमतं क्षणं तत्काले सन्निकर्षाभावात्, तदनन्तरं च विषयस्यैवाभावात् सम्बद्धवर्त्तमानस्यैव प्रत्यक्षविषयत्वात् प्रतीतेरन्यथोपपत्या प्रत्यक्षसामन्यन्तरकल्पनस्याप्यनवकाशादित्यभिप्रायेणाह- क्रामेकेति । ननु आनुमानिकं क्षणवेदनं स्यादित्यत आह - अनुमानेति । क्षणमात्रस्थायिना व्याप्तिग्रहाभावात् पक्षधमंताग्रहाभावात् व्याप्तः पक्षधर्म्मो लिङ्गं प्रकृते न सम्भवतीत्याह – नेति । ननु क्षणपदं कस्यचित् वाचकं पदत्वात् गवादिपदवदित्यनुमानं स्यादित्याह-क्षणेति । यदि पदं प्रयुज्येत तदा लिङ्गं भवेत् प्रयोगश्च सङ्केतग्रहाधीनो न क्षणपदार्थोपस्थितिं विनात्यन्थोऽन्याश्रय इत्याह - नेति । ननु शब्दोऽर्था-

न्यायलीलावतीप्रकाशः

लिङ्गभावेन क्षणे मानत्वं येन विषयाज्ञाने तदज्ञानात् क्षणानुमितिः स्यात् किं तु घटज्ञानवत् स्वरूपसदेव मानमित्याह --नानेति । उक्तयुक्त्या न क्षणिकस्य प्रत्यक्षत्वमिति क्रमिकविशिष्टसंयोगादिरूपाधिरेव तद्विषय इत्याह – क्रमिकेति । लिङ्गाभावादिति । व्यापकानिरू पणे व्याप्त्यज्ञानादित्यर्थः । अतिरिक्तं च वैशिष्टयं त्वया नाभ्युपेयत इति भावः । क्षणप्रयोगादिति । नयनाद्यात्मकव्यवहारस्य क्षणेऽसम्भ. वात् क्षणशब्दप्रयोगस्तत्र मानमित्यर्थः । निरूपित इति | विषये निरूपि

न्यायलीलावती प्रकाशविकृतिः

तथा च विषयाज्ञाने क्षणवेदनस्याज्ञानात् न लिङ्गत्वमिति भावः । स्वरूपासिद्धिदेशनाभ्रमं वारयति - व्यापकेति । व्यापकस्य क्षणस्याज्ञाने व्याप्त्यज्ञानादित्यर्थः । ननु कर्मणि विभागप्रागभावस्य यद्वैशिष्टयं तत्प्रतीत्तमेव व्यापकं भविष्यतीत्यत आह -- अतिरिक्तं चेति । भट्टैः