पृष्ठम्:न्यायलीलावती.djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


नि क्षणशब्दप्रयोगः, तस्माच्च तदनुमानमितीतरेतराश्रयात् । न च प्रत्यक्षानुमानयोरभावे मानान्तरावकाशः । ततो मानाभावान्नास्त्येव क्षणिकः क्षणः इति । किं तदा तद्व्यपदेशबीजम् | ज्ञानविशेषः । कस्तस्य विषयः । कर्मरूपं [१] तज्जनित [२] विभागप्राग-


न्यायलीलावती कण्ठाभरणम्

पत्तिर्वा क्षणवेदकोऽस्तु इत्यत आह - न चेति । तन्निरासप्रमाणावष्टम्भोऽत्र मूलम् । सिद्धान्ती स्वपक्षमुपसंहरति - तत इति । क्षणिकपदार्थान्तरावच्छेद्यः क्षणः कालोपाधिविशेषो नास्तीत्यर्थः । पूर्वपक्षी पृच्छति – किमिति । न हि व्यपदेशोऽप्यपह्नोतुं शक्य इति भावः । उत्तरं ज्ञानविशेष इति । कस्तस्येति । ज्ञाने विषय एव विशेषो न च तादृशो विषयस्त्वयाऽभ्युपगम्यत इति भावः । उत्तरं कर्म्मस्वरूपमिति ।

न्यायलीलावतीप्रकाशः

ते शब्दप्रयोगरूपव्यवहारनिरूपणं ततश्च विषय सिद्धिरित्यन्योन्याश्रय इत्यर्थः । नास्त्येवेति । क्षणव्यवहारहेतुः क्षणिकार्थो नास्त्येवेत्यर्थः । कारणमात्रप्रश्नस्यातितुच्छतयाऽसाधारणकारणं पृच्छति - किं तदेति । अन्यासाधारणकारणाभावात् क्षणशब्द एव तदनुमापक इति भावः । उत्तरं - ज्ञानविशेष इति । क्षणव्यवहारे व्यवहर्त्तव्यज्ञानविशेषः कारणमित्यर्थः । विषयविशेषनियतस्य ज्ञानस्य व्यवहारविशेषजनकत्वमिति विषयविशेषं पृच्छति - कस्तस्येति । उत्तरं कर्मेति । आक्षिपति--

न्यायलीलावतीप्रकाशविवृतिः

परमतिरिक्तं वैशिष्ट्यं तत्राङ्गीक्रियते न तु क्षणरूपातिरिक्तपदार्थवादिना त्वयाऽपीत्यर्थः । यैरप्यङ्गीक्रियते तैरपि नित्यमिति न तस्य क्षणिकत्वमिति भावः । केचित्तु न व्यापकनिरूप्यं व्याप्तिवैशिष्टयं ब्रूमः किं त्वतिरिक्तमेव व्यापकानिरूप्यं तदित्यत आह-अतिरिक्तं चेति । अर्थो भावश्च पूर्वोक्त एवेति वदन्ति । एवं चेयं फक्किका किमितत्यिन न्तरमत्र तु तल्लिखनं प्रमादा [३] दिति मिश्राणां लिखनं चिन्त्यम् ।

 अन्त्य शब्दस्य क्षणिकस्य स्वीकारात् सामान्यनिषेधोऽयुक्त इत्यत आह - क्षणव्यवहारहेतुरिति । पूर्वोक्त्ते [४] रिति शेषः ।


  1. 'कर्म्मस्वरूपम्' ।
  2. प्रामादिकं तल्लिखनमिति पाठान्तरम् ।
  3. तज्जन्येति कण्ठाभरणधृत पाठः ।
  4. पूर्वोक्तयुक्फेरिति पाठान्तरम् ।