पृष्ठम्:न्यायलीलावती.djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
न्यायलीलावती


भावादिरूपश्चोपाधिः । केवलेऽपि तर्झुषाधावुपाधिमति च तद्रव्यवहारप्रसङ्गः । विशिष्टमिति चेन्न । किं वैशिष्ट्यं, ज्ञानविशेषस्तस्य


न्यायलीलावतीकण्ठाभरणम्

अतिप्रसङ्गवारणाय तस्यावच्छेदकमाह -- तज्जन्येति । मिलितौ द्वौ विषयौ न च तयोरन्यदा सत्त्वमिति नातिप्रसङ्ग इति भावः । ननु विशकलिताभ्यां कर्म्मविभागप्रागभावाभ्यां यदि क्षणव्यवहारः स्यात् तदा तदवस्थ एवातिप्रसङ्ग इति विशिप्टे तदुभयविषयत्वं वाच्यं वैशिष्टयं चातिरिक्तं त्वया नाभ्युपगम्यत इति एकग्रन्थेन पूर्व्वपक्षवाद्याह - केवल इति । किं वैशिष्ट्यमित्यन्तेन । सिद्धान्त्याह- ज्ञानविशेष इति । विलक्षणज्ञानमेव वैशिष्टयं न तु पदार्थान्तरं क्लृप्तस्य ज्ञानस्यैव विशिष्टव्यवहारार्पकत्वे सम्भवति पदार्थान्तरकल्पनाया गौरवपराहतत्वादिति भावः । एवं च ज्ञानविशेषं स्पन्दविभागप्रागभावौ च विषयीकुर्व्वत्तज्जानं विशिष्टव्यपदेशं करोति । स च ज्ञानविशेषो विशिष्टव्यवहारान्यथानुपपत्त्या सिद्धो जीवनयोनियत्न इव

न्यायलीलावतीप्रकाश:

केवलेऽपीत्यादि किं वैशिष्ट्यमित्यन्तेन । केवल उपाधौ विभागप्रागभावादि- मात्रज्ञाने उपाधिमति च केवलकर्ममात्रज्ञाने च सति क्षणव्यवहारप्रसङ्क इत्यर्थः, अक्षादिपदवत् क्षणशब्दस्य नानार्थत्वापत्तिश्चेति भावः । ननु विभागप्रागभावादिविशिष्टं कर्म तद्विषय इति नोक्तो दोष इत्याह—विशिष्टमिति । वैशिष्टयमन्यत्र विशेषणविशेष्यसम्बन्धः, स चात्र नास्तीत्यभिप्रेत्याह - किमिति । ज्ञानविशेष इति । विजातीयज्ञानमि-

न्यायलीलावतीप्रकाशविवृतिः

[ उत्तरमित्यनन्तरं ददातीति शेषः । एवमग्रेऽपि ।][१] अक्षादिपदवदिति । स्वजन्यविभाग (प्राग?) भावादिलक्षणार्थभेदादिति भावः । विजातीय ज्ञानमिति | क्षणमात्रस्थायिपदार्थाभावाद्विजातीयं ज्ञानमेव सार्वलौकिकक्षणव्यवहारहेतुरिति भावः । एतेन ज्ञानस्यापि व्यवहाराविशेषजनकतानियामको विषयविशेष एवेति विषयविकल्पस्तदवस्थ इति परास्तम् । वैजात्यस्यैव व्यवहारावशेषौपयि (क ?) त्वात् । ननु व्यवहर्त्तव्यज्ञाने विषयात्मक एव विशेषो व्यवहारौपयिक इत्यत आह-


  1. [ ] एतन्मध्यस्थपाठो द्वितीयपुस्तके नास्ति ।