पृष्ठम्:न्यायलीलावती.djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

त्यर्थः । तच्च स्वसामग्यधीनं कदाचिदेव तथा च विजातीयज्ञानविशेषविषयौ कर्मतज्जन्यविभागप्रागभावी क्षणशब्दप्रयोगविषयः, क्षणशब्दप्रयोगरूपश्च व्यवहारो ज्ञानविशेषविषयताप्रतिसन्धायकज्ञा- नविशेषादित्युक्तं भवति । यत्तु ज्ञानं विशिष्यतेऽनेनेति ज्ञानविशेषो विषयविशेष एव तथा हि यदि विशिष्टमतिरिक्तं न स्यात् तदा समूहालम्बनाविशेषो विशिष्टवुद्धेः स्यात् स च विषय विशेषोऽन्योन्याभावविशेष एव, अभावत्वनैवाभावज्ञाने प्रतियोगिधीः कारणमिति तद्भावेऽव्यभावो भासत एवेत्युक्तम् । तन्न, वैशिष्ट्यमात्रस्यात्राप्रस्तुतत्वेनानिर्वचनात् क्षणव्यवहारहेतुज्ञानविषयस्य तद्विशेषस्यैव स्वरूपकथनात् समूहालम्बनाच्च विशिष्टज्ञानस्य विशेषः कारणकृतः कार्यकृतः प्रकारकृतो वेति वैशिष्ट्याख्ये विशिष्टज्ञानविषयविशेषे माना-

न्यायलीलावतीप्रकाशविवृतिः

क्षणशब्दप्रयोजकरूपश्चेति । विजातीयज्ञानविषयतापन्नकर्मविभाग (प्राग?) भावयोर्व्यवहर्त्तव्यतया ज्ञानस्यापि व्यवहर्त्तव्यकोटिप्रवेशात्तद्विषयकज्ञानादेव व्यवहार इति व्यवहर्त्तव्यज्ञाने विशेषो विषयकृतोऽस्त्येवेत्यर्थः । यद्यपि सम्बन्धस्थानीयं ज्ञानं नाना [१] क्षणवृत्ति तथापि सामग्रीविशेष प्रसूततया व्यवहारविशेषार्थकमिति भावः । यदि विशिष्टमिति वैशिष्ट्यमित्यर्थः । स चेति । अतद्व्यावृत्तिरूप इत्यर्थः । नन्वेवमदण्डिज्ञाने दण्डिज्ञाने दण्डिज्ञाने चादण्डिज्ञानमित्यन्योन्याश्रय इत्यत आह–अभावत्वेनैवेति । वैशिष्ट्येति । तथा चार्थान्तरमिति भावः । यद्यपि सामान्य निर्वचनमपि विशेषपरमेवेति नार्थान्तरं तथाप्यभावप्रत्यक्षमात्रं प्रत्येव प्रतियोगिधीः कारणमिति तदभावे तन्न भासेत [२] किं च तदादायापि समूहालम्बनसम्भवान्न तद्भेदकतया तत्सिद्धिः । सिद्धौ वा तस्यान्योन्याभावात्मकस्य नित्यतया न क्षणव्यवहारहेतुत्वम्, अन्यथा कोऽपराधः कर्मविभागप्रागभावादीनामित्यत्र तात्पर्यम् । कथं तर्हि समूहालम्बनविशिष्टज्ञानयोर्भेद इत्यत आह - समूहालम्बनाचेति । कारणं विशेषज्ञानं कार्यमतव्यावृत्तिबोधः। एतदुभयमपि कार्यतावच्छेद [३] काधीनमित्यरुचेराह – प्रकारकृत इति । विशिष्टज्ञाने दण्डः प्रकारः समूहा.


  1. 'नान्त्य'
  2. 'भासते' ।
  3. 'ककारणतावच्छेदके'ति द्वितयिदर्शपुस्तकेऽधिकः पाठः ।