पृष्ठम्:न्यायलीलावती.djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
न्यायलीलावती


चान्यदाभावान्न व्यवहारः । तदभावश्च तत्सामग्रीविरहात् ।

रवेः स्पन्दः क्षणस्तस्य नानाक्षणविशिष्टता ।
क्रमिनानाविधोपाधिसम्बन्धः परिकीर्त्यते ॥


न्यायलीलावतीकण्ठाभरणम्

श्वासप्रश्वासान्यथानुपपत्त्येत्युक्तं भवति । तस्य चेति । वैशिष्ट्याख्यज्ञानविशेषस्येत्यर्थः । ननु कथमन्यदा तदभाव इत्यत आह - तदभावश्चेति । आत्ममनोयोगविशेषोपहिता तत्सामग्यपि भिन्नैवेत्यर्थः । यत्तु वैशिष्ट्य मतद्यावृत्तिरेव ज्ञानविशेषपदेनोक्ता तदनङ्गीकारे च विशिष्टज्ञानात् समूहालम्बने विशेषो न भवेदिति केषांचिव्घाख्याने कैश्चिद्वैशिष्ट्यमात्रस्याप्रस्तुतत्वात् समूहालम्बनाञ्च विशिष्टज्ञानस्य कारणकृतः कार्यकृतः प्रकारकृतो वा विशेष इत्यादिदूषणमुक्तम् । तन्न, वैशिष्ट्यस्य क्षणव्यवहारोपपादकत्वेनैव प्रस्तुतत्वात् समूहालम्बनात् प्रकारादिकृतो विशेषो न स्यादित्यापादने प्रकारादिकृतो विशेषस्तत्रेत्ययुक्तत्वात् दण्डपुरुषसंयोगा इत्यत्र दण्डत्वादिकं दण्डी पुरुष इत्यत्र दण्डित्वमिति वैशिष्ट्यविषयतामन्तरेण न स्याद्वैचित्र्यमित्येवापादितं तत्र च प्रकारकृतो भेद इत्ययुक्तमभिधानम् । न च वैशिष्ट्याख्ये मानाभावः, अन्योऽन्याभावस्य सर्वाभ्युपगतत्वात् स एव तव्द्यावृत्तिस्तदुक्तमाचार्येण-तव्घावृत्तिर्वैशिष्ट्यमिति । विकीर्णमर्थे कारिकाभिः सङ्गमयति – रवि ( वे ? ) रिति । क्षण इति । क्षणावच्छेदक उपाधिरित्यर्थः । विभागप्रागभावादिविशिष्ट इति शेषः । ननु तत्रैव कथं क्षणचतुष्टयावस्थायित्वव्यवहार इत्यत आह—तस्येति । क्रमवत्संयोगादिसम्बन्ध एव स्पन्दस्य नानाक्षणवैशिष्ट्यमित्यर्थः । असम्बद्धेषु तत्त्वेषु स्पन्द विभागप्रागभावादिषु ज्ञानमेव सम्बन्धफलार्पकं विशिष्टव्यवहारजनकमित्यर्थः । ननु ज्ञानं सम्बन्धफलं

न्यायलीलावतीप्रकाशः

भावाच्च । अन्यदेति । केवलोपाधिशानकाले केवलोपाधिमज्ज्ञानकाले चेत्यर्थः । खेः स्पन्द इति । विभागप्रागभावाघुपाधिविशिष्ट इति शेषः । केवलस्पन्दस्यानेककालवृत्तित्वात् । नन्वैवं रविस्पन्दे कथं क्षणचतुष्टयस्थायित्व व्यवहारस्तत्रैव तदवृत्तेरित्यत आह - तस्येति । क्रमवद्धि-