असम्बद्धेषु तत्त्वेषु ज्ञानं सम्वन्धवत्पुनः । |
न्यायलीलावतीकण्ठाभरणम्
विशिष्टव्यवहारं कथमर्पयेदत आह - स्वभावेति । सम्बन्धवदिति । यथा सम्बन्धस्य विशिष्टव्यवहारार्पकत्व स्वभावो नियामकस्तथा ज्ञानविशेषस्यापीत्यर्थः । सम्बन्धफलार्पकं ज्ञानमेव वैशिष्ट्यं निर्व्यूढमित्यग्रिमकांशेनान्वयः । ननु ज्ञानमेव वैशिष्ट्यमित्य श्रुतकल्पनमत आह - तदेवात्रेति । अतिप्रसङ्गदोषनिराकरणे प्रकारान्तरानुपपत्याऽत्र सिद्धान्ते तदेव व्यवस्थितं तव्घवस्थापितमित्यर्थः । एकदेशिनः सूत्राविरुद्धं युक्तिसिद्धमभ्युपगच्छन्तो नापसिद्धान्तेन दूष्यन्त इति
न्यायलीलावतीप्रकाशः
भागप्रागभावाघपाधिचतुष्कसम्बन्धात्तत्र क्षणव्यवहार औपचारिक इत्यर्थः । अतिरिक्तक्षणाभ्युपगमेऽपि तत्र क्षणिकव्यवहार औपचारिक इत्यभ्युपेयं तत्रैव तदवृत्तेरिति भावः । ननु विशिष्टव्यवहारस्यान्यत्र सम्बन्धजन्यत्वाइज्ञ्ज्ञानविशेषो न तद्धेतुरित्यत आह - असम्बन्धेष्विति । यथा विशेषणविशेष्ययोः सम्बन्धो वैशिष्ट्याख्यः फलं विशिष्टव्यवहारं जनयति, तवसम्बद्धेष्वपि वस्तुषु स्पन्दविभागप्रागभावादिषु ज्ञानमेव विजातीयं सम्बन्धफलं विशिष्टव्यवहारं जनयतीत्यर्थः । अतिप्रसङ्गेति । यथा अतिरिक्तमपि वैशिष्ट्यं स्वविशिष्टव्यवहारं वैशिष्ट्यान्न जनय ति तत्रैव तद्द्वृत्तेः, किं तु स्वभावादेव, अत एव नातिप्रसङ्गः, तथा
न्यायलीलावतीप्रकाशाविवृतिः
लम्बने सोऽपि विशेष्यीभूय [१] भासते । प्रकारत्वं च ज्ञाननिरूपितः स्वरूपसम्बन्धविशेषः । तत्र च नियामकं जनकी भूतज्ञानविषयत्वमिति दिक् । औपचारिक इति । इदमापाततो वस्तुतः सूर्यकर्मापि स्वस्मिन् वर्तत एवेति प्रतीतिबलादेवोपेयं प्रमेयत्वे प्रमेयत्ववत् । संयोगलमवायाभ्यामेव हि स्वाधारत्वं स्वस्य विरुध्यते [२], अत एव घटात्यन्ताभा-