पृष्ठम्:न्यायलीलावती.djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
न्यायलीलावती


 स्वविषयेणोपाधिना तद्वता वा सहकृतं क्षणज्ञानं विशिष्टव्यवहारसमर्पकम् । यदा तु तदुभयसहकारिसम्पन्नं न भवति तदा केवलव्यवहारं करोति न विशिष्टव्यवहारमिति ।


न्यायलीलावतीकण्ठाभरणम्

भाव: । कारिकात्रयार्थे निष्कृष्य दर्शयति- - स्वविषयेणेति । उपाधिना प्रागभावादिना । तद्वता स्पन्देन । वाकारः समुच्चये, उपाध्युपाधिमतोर्गुणप्रधानभावं प्रत्यनास्थायां वा । तथा च स्पन्दविभागप्रागभामसमसमयोत्पन्नज्ञानाधीनः क्षणव्यवहार इत्यर्थः । तदुभयेति । यदा स्पन्दमात्र विभागप्रागभाववैशिष्टयाख्यज्ञानाभ्यां सहितं न भवतीत्यर्थः । एवं च सति एकस्मिन् क्षणे नानाकर्म्माण्यादाय नानाक्षणव्यवहारः स्यात्, नानोपाधिघटितत्वे क्षणपदस्य नानार्थतापत्तिः, ज्ञानानुल्लेखे क्षणानुल्लेखापत्तिः, इदानीमिदानीमितिप्रतीत्यापत्तिश्च - इत्याघुत्तानदूषणमपास्तम्, स्वजन्यविभागप्रागभावसहकृतरविस्पन्दत्वे- नानुगमात् वैशेषिकमते समवायानुल्लेखेऽपि विशिष्टप्रतीत्यभ्युपगमात् ज्ञानविशेषस्य च सम्बन्धस्थानीयत्वात् इदानीमिदानीमित्यस्य प्रसञ्जकाभावात् प्रलये च ब्रह्माण्डान्तरवर्त्तिरविस्पन्दस्य सत्त्वात् सर्व्वदा क्षणव्यवहारानुपपत्तिर्ज्ञानविशेषविरहादिति ।

न्यायलीलावती प्रकाशः

ज्ञानविशेषोऽपीत्यतोऽत्र दर्शने प्रकृते तदेव वैशिष्टयमिति निर्व्यूढमवधारितम्, व्यवस्थितं स्थिरीभूतमित्यर्थः । एतेन सम्बन्धसादृश्यात् न कथं तत्फलजनकं ज्ञानं न ह्यन्यसादृश्यादन्यकार्य्यमन्यस्माद् भवतीत्यपास्तमिति भावः । तद्वता वेति । वा शब्दः समुच्चये अनास्थायां वा । उपाधितद्वबुद्धेर्विशिष्टव्यवहारजनकत्वे किमुपाधिविषयत्वं तन्त्रं त-

न्यायलीलावतीप्रकाशविवृतिः

वे घटो नास्तीति प्रतीतिः सार्वलौकिकीति रहस्यम् । एतेनेति । ज्ञानस्यैव सम्बन्धत्वाभ्युपगमेनेत्यर्थः । अनास्थायां वेति । विश्वविलक्षणज्ञानस्यैवातिप्रसङ्गमञ्जकन्वे (१)[१] विषयावच्छेदमन्तरेण ज्ञानानिरूपणे विषयस्य निरूपकतायामनास्था द्रष्टव्या । ननु ज्ञानेऽपि कारणं शब्द


  1. 'कव्वेन' ।