पृष्ठम्:न्यायलीलावती.djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
भूमिका ।


किरणीवलीकारमतखण्डनम् , अनुपलब्धिनिरासे मीमांसकमतखण्डनप्रौढोप्रदर्शनपूर्वकमभावतद्विभागपरीक्षाक्रमश्च वल्लभाचार्याणामाचार्यत्वमन्वर्थयतीत्यत्र न कश्चित्सन्देहः । अपवर्गपरीक्षायामप्यभावप्रसङ्गसङ्गतायां वेदान्तित्रिदण्डिभट्टाद्यभिमतमुक्तिपदार्थनिरसनपूर्वकं दुःखप्रागभावरूपापवर्गस्य पुरुषार्थत्वसाधर्म, द्वयवयववादिजैनमतखण्डनपूर्वक पंचावयवस्थापनं, हेत्वाभासपरीक्षणान्ते स्मृतेर्मानान्तरत्वनिरासपूर्वकं युक्त्याऽतीन्द्रियस्यापि गुरुत्वस्येन्द्रियप्रवृत्तिविषयत्वसाधनं चाचार्यवल्लभस्यालौकिकमेवान्यन्त्रानुपलंभात् । तथाऽग्रे प्रोक्षणादिजन्यसंस्कारखण्डनपूर् कन्तत्रैविध्यस्थापनं शब्दे द्रव्यत्वसाधकानुमाननिरासपूर्वकं गुणत्वस्थापनं, स्फोटवादिवैयाकरणमतखण्डनं च यद्यप्यन्यत्रोपलभ्यते, तथापि रुच्यादिचतुर्विशत्यतिरिक्तगुणाक्षेपसमाधानपूर्विका गुणनियमनशैली नान्यत्र कुत्रचिदीदृशी भाष्यादिप्राचीननिबन्धेषूपलभ्यत इत्ययमपि विशेषो गुणपरीक्षायामतीव हृदयङ्गमः ।

 कर्मविभागपरीक्षान्तेऽतद्वयावृत्तिरेव जातिर्नान्या वस्तुभूतेति बौद्धमतखण्डनरीतिः, परापरातिरिक्तसामान्याक्षेपसमाधानप्रकारश्च, प्राचीनवैशेषिकरहस्योद्घाटनपरोऽतीवप्रौढपाण्डित्यप्रकाशको न्यायलीलावतीकाराणाम् । एवमेव समवायपरीक्षायां विशेषणताविशेष्यतयोः स्थलविशेषान्तर्भावेण स्वरूपभेदकथनपूर्वकं समवायस्थ वैशेषिकमतेऽप्रत्यक्षत्वेऽपि समानतन्त्रशोडषपदार्थ मतमाश्रित्य महताऽऽडम्बरेण प्रत्यक्षत्वव्यवस्थापनं च विभागपरिच्छेदेऽत्यन्तमुपादेयो न्यायलीलावत्याः वैदग्ध्यविधायको भागविशेषः । व्यतिरेकिरूपवैधर्म्यज्ञानाधीनस्य व्यावृत्तत्वेन पदार्थज्ञानस्यैव तत्वज्ञानत्वात् व्यतिरेक्यनुमानपरीक्षापूर्वक 'व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्' इत्याभियुक्तोक्तेर्विवेचनद्वारा सकलपदार्थानां प्रातिस्विकलक्षगवर्णनस्यान्ते संशयस्य महर्षिवात्स्यायनोद्योतकराभिमतपंचविधत्ववैविध्यखण्डनपूर्वकं परमन्यायाचार्यवाचस्पतिमिश्रमतखण्डनं भूषणमतनिरासपूर्वक प्रमाणसामान्यलक्षणं च वैधर्म्यपरिच्छेदे वल्लभाचार्येण स्वमतिप्रागल्भ्यादेवोड्कितम् ।

 साधर्म्यस्यान्वयिहेतुत्वेनात्मतत्त्वावबोधकत्वात्तत्परिच्छेदेऽस्तित्वादिसाधर्म्यपरीक्षणान्ते हेतुफलभावानङ्गीकारे आत्मादितत्त्वाव्यवस्थितौ न निःश्रेयसप्राप्तिरिति सङ्गत्या द्रव्यादिप्रक्रियापरिच्छेदे सिंहावलोकनन्यायेन द्वय णुकमिद्वयाक्षेपसमाधानयुक्तीनां पिठरपाकमापक्षितां पीलुपाकयुक्तीनां च प्रदर्शनद्वारा पाकजप्रक्रियावर्णनम्, अन्ते द्वित्वाग्रुत्पचिप्रक्रियाक्षेपसमाधानाय संख्याप्रक्रियाप्रदर्शनम् , बाधकाभावात् द्वयणुकपरिमाणमेव त्रसरेणुपरिमाणजनकमस्त्विात्याक्षेपस्य 'चातुर्विधमपि जन्यपरिमाणं संख्यापरिमाणप्रचयजन्यमिति भाष्याक्षेपस्य' च समाधानार्थ परिमाणप्रक्रियाप्रदर्शनम् , द्विपृथक्त्वसाधनाय पुनः पृथक्त्वप्रक्रियाया संयोगविभागादिपरीक्षणाय च संयोगादिसंस्कारान्तप्रक्रियायाश्चान्ते प्रदर्शनमित्येव-