पृष्ठम्:न्यायलीलावती.djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

द्वद्विषयत्वं वेत्यत्रानास्थेत्यर्थः । ननु क्षणव्यवहारोऽनुगतोऽननुगते- नोक्तनिमित्तेन निर्वाहयितुमशक्यः कर्मैवानुगतं तत्तदुपाधिविशिष्टं तन्निमित्तमित्यपि न युक्तम्, तथापि विशेषणांशाननुगमेन विशिष्टस्थाननुगमात् । यच्च क्षणवेदनं न क्षणे मानं क्रियादेः स्थिरत्वेनातद्विषयत्वात् अस्तमित पूर्वापरभावस्य च वस्तुनस्तद्विषयस्यासिद्धेः क्षणव्यवहारश्च तत्र न मानमन्योन्याश्रयादित्युक्तं तन्न क्रियादेरक्ष णिकत्वेऽपि परस्परोपक्ष्लेषेण व्यवहारगोचरत्वात् न झुक्तयोर्द्वयोः क्षणान्तरसम्बन्धः अन्यतरवैकल्पात् । नाप्यन्योन्याश्रयः । व्यवहारो हि ज्ञानं शब्दप्रयोगो वा । नाद्यः, न हि ज्ञाने निरूपिते विषयनिरूपणं किन्तु ज्ञानमेव तथा । नान्त्यः, शब्देन स्वकारणज्ञानाक्षेपात् ज्ञानमेव विषयसिद्धिरिति तवाप्यनुमतमन्यथा क्वापि किं चिन्न सिद्ध्येत् । कारणं च तत्र पूर्वपूर्वसंस्कारसहितं प्रत्यक्षमेवान्यद्वेत्यन्यदेतत् कार्यस्य सम्प्रतिपत्तेः । यदपि विषयस्याऽतथात्वेऽपि ज्ञानविशेषात् क्षणव्यवहार इति तदसत् । ज्ञानोल्लिखितविषयानादरे वाह्यापलापापत्तेः । न च बाधाबाधाभ्यां व्यवस्था बाधस्यापि प्रमात्वेन तद्विषयेऽप्यनाश्वासात् । नापि ज्ञानविशेषो वैशिष्ट्यं ज्ञानानुल्लेखे क्षणोल्लेखानुपपत्तेः । नापि स्वविषयेण सहकृतं ज्ञानं विशिष्टव्यवहारे हेतुर्ज्ञानेन व्यवहारजनने स्वविषयानपेक्षणात् अनागतादौ व्यभिचारात् ।

न्यायलीलावतीप्रकाशविवृतिः

एवेत्यन्योन्याश्रय एवेत्यत आह - कारणं चेति । 'तत्र' शब्दकारणे ज्ञाने । कार्व्यस्येति । [१]ज्ञानोल्लिखितेति । विजातीयज्ञानविशेषेणैवा पुरस्कृतविषयेन व्यवहारसिद्धौ वाह्यापलापापत्तेरित्यर्थः । बाघस्यापीति । तत्राव्यवास्तवेनैव [२] विशेषेण तदभावव्यवहारसम्भवादिति भावः । ननु संयोगादिवद ज्ञानविशेषोऽपि सम्बन्धतया व्यवहर्त्तव्यकोटिप्रविष्ट एवेति न विषयापलाप इत्यत आह - नापीति | विजातीयज्ञानस्वीकारे च चाक्षुषत्वादिना सङ्करः खण्डप्रलये च ज्ञानाभावात् क्षणिक [३] व्यवहारानापत्तिरित्यपि बाधकं द्रष्टव्यम् । स्वविषयेणेति ।


  1. शब्दलक्षणकार्य्यस्येत्यर्थ इत्यधिकः पाठो द्वितीयादर्शपुस्तके ।
  2. 'प्यवान्तरेणैव' ।
  3. 'क्षणा' ।