पृष्ठम्:न्यायलीलावती.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
न्यायलीलावती


न्यायलीलावतीप्रकाशः

अत्राहुः । स्वजन्यविभागप्रागभावसहितं कर्मैव क्षणः प्रलयेऽप्यणुकर्मणः सत्तवात । यद्यपि कर्मविभागप्रागभावयोः स्थायित्वमेव तथाप्युक्तद्वयावच्छेदो न क्षणान्तरेऽन्यतरवैकल्पादिति नातिप्रसङ्गः । न च स्वरूपमेव तयोः सम्बन्धस्तच्च स्थिरमेवेति युक्तम्, सम्बन्धातरं वि-

न्यायलीलावतीप्रकाशविवृतिः

तथा च न बाह्यापलापापत्तिरिति भावः । स्वजन्येति । यद्यपि स्वनाश्यसंयोगसहितविभागादेरिति[१] विनिगमकाभावेन क्षणव्यवहारहेतुत्वमित्यननुगम [२]`स्तथापि स्वजन्य विभाग पदं [३] चरमकारणमात्रपरं तेन स्वकार्यप्रागभावोपहितं चरमकारणं क्षण इत्यर्थः । चरमकारणं विभागे कर्म पूर्वसंयागनाशे विभागः । सति कर्मणि [४] संयोगनाशः सति तन्नाशे उत्तरसंयोगे कर्म । प्रागभावश्च भावस्या भावो ध्वंसस्य (भाव) रूपः प्रतियोगीत्यन्यदेतत् । न च विभागप्रागभावो [५] पहितकर्मत्वादिना भाने उक्तानुगतरूपाभावात्कथं क्षणव्यवहार इति वाच्यम्, प्रातिस्विकरूपेणैव ज्ञानस्य व्यवहारकारणत्वात् उक्तस्य प्रकारस्य स्वरूपसत एव विषयत्वानुगमकत्वात् । न चैकस्य कर्मणो विभागतदभावोपधानं विरुद्धं समयभेदेन वाच्यम् । तथा चान्योन्याश्रयः मति तदुपधाने क्षणरूपसमयभेदात्सति च समयभेदे तदुपधानादिति वाच्यम्, विभागाभावोपहितकर्मान्तरावच्छिन्नकाल मेदेन विभागतदभावांपधानादेव तत्रापि कर्म्मान्तरमेवावच्छेदकम्, अनवस्था च प्रामाणिकी न दोषाय । यद्वा विभागकालान्यकालस्यैव विभागप्रागभावावच्छेदकत्वं न तु क्षणस्य । न चोत्तरकालमपि विभागप्रागभावोपधानापत्तिस्तदा तत्कर्मण एवाभावात् । तत्कर्मत्वसमानाधिकरणस्यैवोक्तस्य नियामकत्वात् । अत एवावयवाभावेन संयोगान्तरावच्छेदेनाकाशे संयोगवृत्तावपि द्विष्ठतयाऽवच्छेदक संयोगस्यान्यत्र वृत्तावपि नावच्छेद्यवृत्तिः, तत्समानाधिकरणस्यैव संयोगावच्छेद्यसंयोगवृत्तिनियामकत्वादिति । सम्बन्धान्तरमिति । न च योग्यतावच्छेदकरूपालाभः विभागकालान्यकालीनत्वस्य कर्मणि तन्निष्ठविभागप्रतियोगित्वस्य प्रागभावे तथात्वात् । यो-


  1. 'दरेपि' ।
  2. 'त्यनुगम' ।
  3. स्वकार्य्यमात्रपरं कर्म्मपदमित्यधिक पाठो द्वितीयादर्श पुस्तकें ।
  4. संयोगे पूर्वेत्यधिक पाठः द्वितीयपुस्तके ।
  5. 'गाभावो' ।