पृष्ठम्:न्यायलीलावती.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
न्यायलीलावतीकण्ठाभरण-सविवृति प्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

ना विशिष्टधीजननयोग्यत्वरूपस्य तस्य क्षणिकत्वात् । न वान्यतरवैयर्थ्य नाप्यननुगमः । न चैवमेकक्षण एव नानाक्षणव्यवहारप्रसङ्गः नानाकर्मणा मेकदा व्युत्पत्तेरिति युक्तम्, एकस्मिन् क्षण इति ह्येकस्मि न्नुक्तरूपे कर्मणि वा तदेकावच्छिन्ने काले वा । आद्ये आपादकाभावः। नान्त्यः, विशेषणभेदेऽपि विशेष्यस्याभेदात् । अन्यथानेकदण्डादिमतश्चैत्रस्यापि नानात्वापत्तेः । नानाक्षणवृत्तिर्व्यवहारः क्षणघटित काष्ठामुहूर्त्तादिव्यवहारश्च क्रमिकक्षणानेवादाय, इदानीं स्वजन्यविभागप्रा. गभावसहितं कर्मेत्यादि तु कर्मान्तरावच्छिन्नं कालमादायेति नात्माश्रयः । यद्वा रूपवति रूपमितिवत् तदुपलक्षित एव काले तद्वृत्तिः न हि तद्रहिते । तन्न, विरोधात् । न चैवमिदानीमिदानीमिति स्यात् विशिष्टस्यैदानीमर्थस्यैकत्वादिति ।

न्यायलीलावतीप्रकाशविवृतिः

ग्यता च प्रत्ययोपहितैव सम्बन्धः स्वरूपयोग्यतामात्रस्यान्यदापि सत्त्वेनातिप्रसङ्गादिति केचित् । तच्चिन्त्यम् । एवं सति प्रतीतेः प्रतीत्यविषयत्वेन तदन्यत्वेन [१] सम्बन्ध [२] विषयकत्वप्रसङ्गात् तदजन्यत्वप्रसङ्गाच्च । तस्माद् द्वित्वपर्याप्त्यधिकरणं सम्बन्धिद्वयमेव सम्बन्धः । यच्च ज्ञानं वर्त्तमानत्वेन तदुभयमवगाहते, तत् क्षणव्यवहारे हेतुः । तदुभयजन्यं सत्तद्विषयकमेव वा ज्ञानं तथा । तदुभयासहकृतमित्यत्रापि सहकारिपदार्थो निरुक्तान्यतरात्मक एव वाच्यः । तथा चोपलक्षणीभूतज्ञानविषयतापर्याप्त्यधिकरणं काल एव क्षण इति दिक् । क्षणिकत्वात् । ज्ञानोपधानीभूय क्षणव्यवहारे हेतुत्वादित्यर्थः । आपादकाभाव इति । नानाकर्मात्मनो नानाक्षणस्यैकदा वृत्तावप्येक स्मिन् कर्मणि नानाक्षणव्यवहारे आपादकाभावः इत्यर्थः । विशेषणभेदेऽपीति । विशेषणभेदस्याप्रयोजकत्वादुपाधिविशिष्टकर्म्मावच्छिन्नकालत्वेनैव क्षणव्यवहारगोचरत्वात् । तथा चापादकाभावः प्रकृतेऽपीति भावः । विशिष्टस्येति । विशिष्टाविशिष्टभेदेन भवत्येव इदानीं काल इति प्रती तिरिति भावः । वस्तुतस्तु अस्मिन् काले अयं काल इति प्रत्ययो भवत्येव । इदानीमिदानीमिति शब्दप्रयोगस्तु न भवति द्वयोरप्यधिककरणत्वेनोपस्थित्या आधाराधेयभावाप्रतिपादकत्वादनभिधाननिर-


  1. 'तदजन्यत्वेन' ।
  2. 'सम्बन्धा' ।