पृष्ठम्:न्यायलीलावती.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
न्यायलीलावती


 शक्तिरपि न [१]पदार्थान्तरम् । प्रमाणाभावात् [२] । अर्था-


न्यायलीलावतीकण्ठाभरणम्

 न च शक्तिरपीति । शक्तिपदवाच्यं वस्तु न पदार्थान्तरमित्यर्थः । कारणत्वस्यैव सामान्यविशेषस्य शक्तिपदार्थत्वादिति भावः । प्रमाणाभावादिति । षट्पदार्थभिन्नत्वे प्रमाणाभावादित्यर्थः । ननु बुद्धेः स्वरूपशक्तिर्बुद्धित्वमेव तच्च दाहादाहदशायां तुल्यमिति यदभावाद् दाहाभावस्तदवश्यमङ्गीकर्त्तव्यमिति सामग्यां सत्यामदाहोऽन्यथानुपपन्न इति पदार्थान्तरत्वेऽर्थापत्तिरेव प्रमाणमिति शङ्कते-- अर्थपत्तिरत्रेति । अन्यथानुपपत्तिरर्थापत्तिरन्यथोपपत्त्या निवर्त्तत इति त्वदभिमतार्थापत्ति-

न्यायलीलावतीप्रकाशः

 शक्तिरपीति । यद्यपि मानाभावादिति हेतुराश्रयासिद्धो व्यधिकरणश्च तथापि कारणानि न स्वजन्यानुकूलाद्विष्ठातीन्द्रियभावभूतधर्मवन्ति तथात्वेनाप्रमीयमाणत्वादिति विवक्षितम्, आत्मनि तादृशादृष्टप्रसिद्धेः । अर्थापत्तिरिति । यादृशादेव करतलानलसंयोगादेकदा दाहो दृष्टस्तादृशादेव मण्यादिसमवधाने दाहाभावो दाहप्रयोजकाभावं विनाऽनुपपद्यमानस्तं कल्पयति तेन विना तदभावानुपपत्तेरित्यर्थः । न च प्रतिबन्धकाभावेनान्यथोपपत्तिः उतेजके सति प्रतिबन्धकसत्त्वेन तव्द्यभिचारात् । न चोत्तेजकाभावविशिष्टप्रतिबन्धकाभावः कारणं तस्य विशेषणविशेष्यतदु-

न्यायलीलावती प्रकाशविवृतिः

स्तत्वाच्चेति तत्त्वम् । ननूक्तहेतोरात्माधिकरणमत आह-व्यधिकरणश्चेति । एवमपि पक्षधर्मताज्ञानाभावादनुमानाभाव इति भावः । कारणानीति । वस्तुमात्रपक्षतायां पण्डापूर्वादौ परकर्त्तृकांशतः सिद्धसाधनोद्भावनापत्तिरिति कारणानीत्युक्तम् । उष्णस्पर्शादिकमादाय बाघ इत्यत उक्तं - अतीन्द्रियेति । अदृष्टवदात्मसंयोगमादाय बहुत्र बाघ इत्यद्विष्ठेति । अव्यासज्यवृत्तीत्यर्थस्तेन न भावभूतपदव्यर्थता । प्रतिबन्धकाभावमादाय बाध इति भावभूतेति । न चातीन्द्रिय पदेनैव तद्वारणं सट्टमतेऽभावस्यानुपलब्धत्वेनातीन्द्रियत्वादस्मन्मतेऽपि दुरह-


  1. न च शक्तिरपीति कण्ठाभरणसम्मतः पाठः ।
  2. मानाभावादिति प्रकाशोदूधृतः पाठः ।