पृष्ठम्:न्यायलीलावती.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

भयाभावेष्वनुगतत्वादिति वाच्यम्, विशिष्टस्यातिरिक्तस्यानभ्युपगमेनानुगमात् । न च विशिष्टविरोधित्वमनुगतम्, विरोधो हि न परस्पराभावव्याप्यत्वं तदाक्षेपकत्वं वा विशेषणाद्यभावस्य विशिष्टाभावत्वे तद्व्याप्यत्वादतदाक्षेपकत्वाच्च अभेदे तयोरभावात् । न च व्यासज्यप्रतियोगिकोऽन्य एवाऽभावः, क्लृप्तेनैवोपपत्तेस्तादृशाभावानभ्युपगमादित्युक्तम्। अभ्युपगमे वा केवलप्रतिवन्धकसत्त्वेऽपि तदभावा-

न्यायलीलावतीप्रकाशविवृतिः

ष्टरूपप्रतिबन्धकाभावस्यातीन्द्रियत्वात् । वस्तुतस्तु [१] अतीन्द्रियत्वं न साक्षात्काराविषयत्वं स्वमतेऽप्रसिद्धेः । नापि लौकिकसाक्षात्काराविषयत्वं परमते प्रतियोग्यप्रसिद्धेः । किन्तु संयोगादिपञ्चकजन्यसाक्षात्काराविषयत्वं तच्च सर्वमते सर्वत्राभावे । तथा च मण्याद्यभावव्यावर्त्तनायैव भावभूतपदम् । तथापि गुरुत्वादिकमादायांशतो बाध इत्यत उक्तं स्वजन्यानुकूलेति । तदर्थश्च स्वनिमित्तकानुकूलत्वमतो न पूर्वदोषतादवस्थ्यम् । न चैवमप्यदृष्टादिकमादायात्मादावंशतो बाध इति वाच्यम्, तदन्यस्यैव पक्षत्वात् । एवमन्यत्रापि यत्र बाधः प्रतिभाति तदन्यस्यैव पक्षत्वम् । यद्यदादाय बाधस्तदन्यत्वमेव साध्ये प्रतियोगिविशेषणं वा । न च दृष्टान्ताभाव आत्मनो व्यतिरेकदृष्टान्तस्यैव सम्भवात् । मन्मते घटादेस्तन्मते पण्डापूर्वादेरन्वयदृष्टान्तस्य च सम्भवाच्च । विशिष्टस्येति । प्रतियोगिभेदेनैवाभावभेद इत्यभिमानः । व्यापकत्वमनुमापकत्वमाक्षेपकत्वमर्थांपादकत्वम् [२] । एतच्च मतभेदेन । प्रतियोगितावच्छेद कभेदादध्यभावभेद इत्याशयमाशय निराकरोति-- न चेति । उत्तेजकाभावप्रतिबन्धकमात्रप्रतियोगिकव्यासज्यवृत्तिप्रतियोगिकाभावत्वेन हेतुत्वम्, व्यासज्यवृत्ति [३] प्रतियोगिकमण्यभावत्वेन वा। आद्ये दोषमाह- क्लृप्तेनैवेति । प्रतियोगिताया व्यासज्यवृत्तित्वेमानाभाव इति भावः । अन्त्ये त्वाह - केवलेति । उत्तेजकाभावविशिष्टमणिसत्त्वेऽपि घटादिकमादाय ताडशाभाव सत्त्वाद्दाहापत्तेरित्यर्थः । एत-


  1. 'वस्तुतोऽती' ।
  2. व्याप्यत्वमनुमापकत्वम् । आक्षेपकत्वार्थो व्यापकत्वमिति पाठो द्वितीयपुस्तके ।
  3. 'वृर्त्तीति नास्ति द्वितीयपुस्तके ।