पृष्ठम्:न्यायलीलावती.djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
न्यायलीलावती


पत्तिस्तत्र [१] मानमिति चेन्न, अन्यथैवोपपत्तेः । मणिमन्त्रादिना दाहप्रतिपक्षभूतस्य क्षेत्रज्ञसमवायिनोऽदृष्टभेदस्योत्पादनात् । अग्न्यन्तरेणापि तर्हि तस्य पुरुषस्य दाहो न स्यादिति चेन्न प्रतिनियताग्निसाध्यदाहप्रतिपक्ष भूतस्यैवादृष्टस्य [२]जननात् । औषधि [३] लिप्तकाष्ठादिषु कथमदाह इति चेन्न, तत्राप्यौषधले-

न्यायलीलावतीकण्ठाभरणम्

राभासेत्याह – अन्यथैवेति । अन्यथोपपत्तिमाह - मणीति । प्रतिबन्धकेन शक्तिविघाते सामाग्यन्तरेणाप्रतिहतशक्तिना दाहः सम्भवति दाहप्रतिपक्षादृष्टोत्पादे तु तस्य नवस्याग्न्यन्तरेणापि दाहो न स्यादिति शङ्कते — अग्नीति । यथा मानवोऽग्निविशेषस्य शक्तिं प्रतिहन्ति तथाऽद्दमपि वह्निविशेषसाध्यमेव दाहं प्रतिहत्तीति परिहरति -- प्रतिनियतेति । काष्ठस्याचेतनत्वात्तत्रादृष्टानुत्पत्तेः कथमदाह इति शङ्कते — औषधेति । न हि स्वनिष्ठमेवादृष्टं प्रतिबन्धकं किन्त्वन्यनिष्ठमपि तद्वद्देशेनोत्पादितमिति परिहरति - तत्रेति । यत्र काष्ठेऽयमौषध-

न्यायलीलावती प्रकाशः

हाहापत्तेः । न हि यत्रैकमेव तत्र त्रयमिह नास्तीति न प्रतीयते, तस्य समुदायविरोधिनो यावत्समुदायिसद्भाव एव विरहादिति भावः । अन्यथैवेति । न च शक्तावप्रतीतावेवकारव्यवच्छेद्याभावः, वक्ष्यमाणादृष्ट विशेषाभावेनोपपत्तेरित्येवंपरत्वात् । मणिमन्त्रादिनेति । उत्तेजके च सति दाहस्तजन्यादृष्टेन समानाधिकरणेन दाहप्रतिपक्षादृष्टनाशात् न तु तदभाव विशिष्टदाहप्रतिपक्षादृष्टाभावः कारणं विशिष्टाभावकारणत्वे बाधस्योक्तत्वादिति भावः । तत्रापीति । स्वयमौषधलितकाष्ठादावदा-

न्यायलीलावती प्रकाशविवृतिः

देव विशदयति-- न हीति । मिश्रास्तु । एकमेवेत्यस्यैकेत्यर्थः [४] तथा च मन्त्रसद्भावेऽपि उत्तेजकाभाव [मणिप्रतियोगिकतादृशाभाव [५]द्वितीयपुस्तके नास्ति ।सत्त्वे दाहापत्ते [६] रित्यर्थः । न च मन्त्रप्रतियोगितादृशाभावस्यापि कारणत्वात् कथमेवमिति वाच्यम्, तावत्प्रतिबन्धकग्रतियोगिकस्यैवाभावस्य कारणत्वे पूर्वदोषानतिवृत्तेः मन्त्रसत्वेऽपि तादृश-


  1. 'त्तिरत्र' ।
  2. 'स्योत्पादनात | औ०' ।
  3. 'औषधाल'।
  4. केवलेत्यस्यैकेत्यर्थ इति द्वितीयपुस्तके ।
  5. [ ] एतन्मध्यस्थपाठो
  6. दाहोत्पत्तेरित द्वितीयपुस्तके ।