पृष्ठम्:न्यायलीलावती.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५७ पकारिपुरुषसमवेतादृष्टस्य दाहप्रतिपक्षभूतस्योत्पादनात् । प्रतिपक्षसाने धानोत्पादकादृष्टविशेषस्य वा दाहप्रातिकूल्यं, अदृष्टवि- न्यायलीलावतीकण्ठाभरणम् योगस्तत्रादाहः काष्ठप्रयोजनिनामदृष्टादौषधप्रयोगोत्पादितादिति भावः । ननु शौचाशौचदशायां नैकत्रादृष्टोत्पत्तिः सम्भवति उभयन्त्र व्यभिचारात् । न वा श्रुतिर्मण्यादिसमवधानस्यादाहजनकादृष्टोत्पत्ति प्रतिपादिकास्तीत्यनुशयेनाह- प्रतिपक्षेति । अदृष्टस्य सर्व्वोत्पत्तिनिमित्तकारणत्वेन प्रतिपक्षसमवधानं प्रत्यपि अदृष्टस्य कारणत्वादिति भावः । ननु तददृष्टं पूर्व्वमप्यासीदिति तदानीमदाहः स्यादित्यनुशयेनाह अदृष्टविशेषति । ननु करतलानलसंयोग स विशेषो न्यायलीलावतीप्रकाशः हश्चादाहप्रयोजनिनामदृष्टादिति भावः । ननु मण्यादिसंसर्गस्यादृष्टजनकत्वे मानाभावः, भावे वा तज्जनकशौचाचमनादेः साधारणकारणस्याप्यन्वयः स्यात् । न चाशुचेरेव तत् कर्त्तव्यं शौचे सति तदभावापत्तेः :। शौचा शौचयोरन्यतरानन्वयश्चासम्भावित एव अधर्मरूपत्वे च तत्र प्रेक्षावतामप्रवृत्तिः स्यादत आह– प्रतिपक्षेति । सर्वोत्पत्तिमतामदृष्टजन्यत्वात् पूर्वशौचे सत्येव तस्योत्पादनाञ्च नोक्तदोष इत्यर्थः । नन्वेवमपि तादृशाददृष्टान्मण्याद्यप्रयोगेऽपि दाहानापत्तिः न ह्यदृष्टे सत्यवक्ष्यं प्रतिपक्षसन्निधिरिति नियमः, अग्रिमकाल एव प्रतिपक्षसन्निधिदर्शनात्तदसिद्धेरभावादित्यत आह - अदृर्शवशेषेति । सं- न्यायलीलावतीप्रकाशविवृतिः मन्त्राभावसत्त्वादत एवोक्तं न होति (१) । तत्प्रतिबन्धकप्रतियोगिकतादृशतावदभावकारणत्वे च गौरवात् । तदपेक्षया लाघवेन एकस्याः शक्तेरनुगतविशिष्टाभावस्य वा प्रयोजकत्वकल्पनादिति वदन्ति । एवकारव्यवच्छेद्येत्युपलक्षणम्, अन्यत्वप्रतियोग्यलाभोऽपि द्रष्टव्यः । अधर्मेण शौचा शौचान्यतराङ्गकत्वमित्यधर्मरूपतायां बाधकान्तरमाहअधर्मरूपत्वे चेति । सर्वोत्पत्तिमतामिति । तथा च प्रतिपक्षसन्निधापकमदृष्टभावश्यकमिति भावः । ननु मण्याद्यप्रयोगकाले तददृष्टसखेऽपि (२) न मानमित्यत आह - अभिमेति । ( ३ ) यद्यपि चिरकालीने एकस्मिन्नव क ( १ ) 'नहीत्यादि' । ( २ ) 'सत्त्वे | ( ३ ) कार्य्यदर्शनेतीत्यधिकः पाठो द्वितीयपुस्तके ।