पृष्ठम्:न्यायलीलावती.djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
न्यायलीलावती


शेषार्जितकरतलानलसंयोगस्य वा दाहप्रतिपक्षत्वम् । स च विशेषो दाहादाहाभ्यामेव कल्पयिष्यते । विवादास्पदं स्वरूपमात्र-

न्यायलीलावती कण्ठाभरणम्

योग्यानुपलब्धिबाधित इत्यत आह -- स चेति । दाहप्रतिकूलो विशेष इत्यर्थः । अदाहेनेतिवक्तव्ये दाहग्रहणं दाहानुवृत्तावाकस्मिकादाहात् स्फुटतरो विशेषो गृह्यत इत्येतदर्थम् । न चैवं सति मण्याद्यन्वयानु विधानं न स्यादिति वाच्यम्, संयोगविशेषस्यापि मण्यादिसमवहितस्यैव दाहप्रतिकूलत्वकल्पनादिति भावः । शक्तावनुमानमाशङ्कते - विवादेति । वह्निर्दाहानुकूलातीन्द्रियाद्विष्ठधर्म्मसमवायी न वेति विप्रतिपत्त्यास्पदमित्यर्थः । अत्राद्येन स्थितिस्थापकेन द्वितीयेनोष्णस्पर्शेन तृतीयेनादृष्टवदात्मसंयोगेन चतुर्थेन विशेषणेनाभावेनान्यथासिद्धिर्निरा क्रियते । एतदेव साध्यत्वेन प्रतिजानीते - स्वरूपमात्रेति । स्वरूपमात्रसम्ब

न्यायलीलावतीप्रकाश

योगे योग्यानुपलम्भात्तदभावः योग्यव्यक्तिवृत्तित्वेन जातेर्योग्यत्वादित्यत आह—स चेति । सत्यपि योग्यत्वे व्यञ्जकाग्रहात्तदग्रह इत्यर्थः । न चैवमसत्यपि प्रतिबन्धके क्वचिद् दाहः सत्यपि चोत्तेजके दाहो न स्यादिति वाच्यम्, कार्यदर्शनमानकत्वे तस्य सत्येव प्रतिबन्धके उत्तेजकाभावे च तत्कल्पनात् । 'प्रहरं मा दहे' त्यत्र च मन्त्रप्रयोक्त्त्रभिमतः काल एव प्रतिबन्धकः । यद्वा संयोगभेद एव तत्रापि कल्प्यत इत्यर्थः । स्वरूपमात्रेति । एकवृत्तीत्यर्थः । तेनादृष्टवदात्मसंयोगेन नार्था-

न्यायलीलावतीप्रकाशविवृतिः

रतलानलसंयोगे विद्यमाने प्रतिबन्धकसत्त्वासत्त्वाभ्यामेवमदाहदाहानुपपत्तिस्तथापि बहेराशुविनाशितया संयोगस्यापि तत्र नानात्वमेव । न च भेर्या काशसंयोगे चिरकालीने शब्दोत्पत्त्यनुत्पत्ति [१] समर्थनं कथमिति वाव्यम्, तत्रापि विजातीयवायुसंयोगस्यैव तदुपपादकत्वादेवमन्यत्रापि फलबलेन कल्पनीयमिति भावः । प्रहरमिति | न चाभिप्रायस्य विशेषणत्वे तन्नाशे दाहापत्तिरुपलक्षणत्वे वातिप्रसङ्ग इति वाच्यम्, तस्य स्वविषयीभूतप्रहरोपलक्षकत्वात् । आसन्नसमयस्य स्ववृत्तिसमाप्त्युपलक्षकतावदिति भावः । एकवृत्तीति । स्वाश्रयान्योन्या-


  1. 'शब्दोत्पत्यनुपपत्ते-'।