पृष्ठम्:न्यायलीलावती.djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


सम्बन्ध [१] सापेक्षं जनकत्वात् आत्मवदिति चेन्न, अत एव संस्कारादृष्टसापेक्षत्वप्रसङ्घात् । तत्रात्मत्वमुपाधिरिति चेत्तुल्यं प्र-


न्यायलीलावतीकण्ठाभरणम्

द्धमेकवृत्तीत्यर्थः । * * * भिन्नकारणत्वेन पक्ष इति । तथा च नांशतः सिद्धसाधनं न च पक्षतावच्छेद कनानात्वे तत् पक्षनानात्व एव तदौचित्यात् । अत एवेति । जनकत्वादेवेत्यर्थः । तत्रेति | संस्कारादृष्टसापेक्षत्वे साध्ये इत्यर्थः । प्रकृतेऽपीति । त्वदनुमाने चात्मत्वस्य उपाधित्वात् अदृष्टसापेक्षत्वेन सिद्धसाधनमपि द्रष्टव्यम् । संयुक्तसमवायेनादृष्टस्यापि वह्नयादिस्वरूपमात्रसम्बद्धत्वात् । यद्यपि वीजादीनामप्युक्तसाध्यवत्तायामात्मत्वं साध्याव्यापकं तथापि स्वमात्रसमवेतातीन्द्रियसापेक्षमिति साध्ये स्व पदेन वह्नयादिसमभिव्याहारात् तत्तदभिधाने सत्यात्मत्वस्योपाधित्वं द्रष्टव्यम् । शक्तेर्जनकत्वं परेण यद्यभिधीयते तदा दोषान्तरमाह--

न्यायलीलावतीप्रकाशः

न्तरं कार्यानुकूलत्वेन साध्यविशेषणान्न स्यन्दानुकूलस्थितिस्थापकेनार्थान्तरं अतीन्द्रियत्वेन विशेषणान्नोष्णस्पर्शेनार्थान्तरम् । अत्रादृष्टापेक्षत्वेन सिद्धसाधनम् । अदृष्टं ह्यात्मनि स्वरूपमात्रसम्बद्धम पेक्षणीयं च कारणैः पक्ष एव तथासम्बद्धोऽप्रसिद्ध एवेति दूषणे सत्येवाह-अत एवेति । तुल्यं प्रकृतेऽनीति । नन्वात्मत्वं नोपाधिः बीजादौ सर्वत्रादृष्टापे-

न्यायलीलावतीप्रकाशविवृतिः

भावासामानाधिकरण्यमेकवृत्तित्वम् । कार्येति । स्वनिमित्तकारण के त्यर्थः । तेन नोक्तदोषतादवस्थ्यम् । कार्य्यपदेन दाहो वा विवक्षितः। ननु स्थापनानुमाने स्वरूपमात्रसम्बन्धत्वं पक्षमात्रसम्बन्धत्वमुक्तमतो नोक्तदोष इत्यत आह - पक्ष एवेति । यद्यपि स्वमात्रसमवेतेति करणे स्वपदस्य समभिव्याहृतपरतया नायं दोषः, तथाध्यननुगः मभयेन स्वपदस्य पक्षदृष्टान्तान्यतरपरत्वेऽयं दोषः । अत्राहेत्यनन्तरमत एवेति पाठस्ततस्तुल्यमिति फक्किकालिखनम् । तत्र नत्वात्मत्वमित्याक्षेप इति द्रष्टव्यम् । क्वचिदा हेत्यनन्तरस्तत्रात्मत्वमिति पाठस्तत्रैव च नन्वात्मत्वमित्याक्षेप इति ब्रूमः । तथा सति ह्यत एवेति


  1. म्बन्धातीन्द्रियसा० ।