पृष्ठम्:न्यायलीलावती.djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
न्यायलीलावती


न्यायलीलावतीप्रकाशः

क्षया साध्याव्यापकत्वात् । अत्राहुः । अत्र यदि द्रव्यं पक्षस्तदाऽवयविनि स्यन्दानुकुलस्थितिस्थापकेन नित्यद्रव्ये च योगिसाक्षात्कारानुकूल विशेषपदार्थेन सिद्ध साधनं गुणपक्षत्वे च द्रव्यत्वमुपाधिः । यद्वा

न्यायलीलावतीप्रकाशविवृतिः

सिद्धान्त्यनुमाने सिद्धसाधने सत्येवात्मत्वमुपाधिमाहेति प्रकाशार्थ: स्यात्, स एवायुक्तः । तत्र स्वरूपसम्बन्धेतिपदाभावाददृष्टं हीत्यादितविवरणासङ्गतेः । तत्र संस्कारसापेक्षत्वस्यापि साधनेन निरुक्तसिद्धसाधनानवकाशाञ्च । किञ्च पूर्वपक्षफक्किकायामाक्षेपे पूर्वपक्षिण एत्र सिद्धान्तो युक्त इति कथं तदा स्वीय एव स्थापनानुमाने यदिद्रव्यमित्यादिना दूषणोद्भावनं घटेत । न चात एवेत्यादिसिद्धान्त्यनुमान एव सिद्धसाधनोद्भावनं यदीत्यादिनेति वाच्यम्, तत्र संस्कारादृष्टयोर्विशिष्यैव साध्यत्वात् । किञ्च यद्वेत्यादिना सिद्धान्तान्तरावतारोऽव्यसङ्गतः स्यादिति । केचित्तु आहेत्यनन्तरं तुल्यमित्येव पाठ इति वदन्ति | साध्याव्यापकत्वादिति । एतच्च यथाश्रुतसाध्याभिप्रायेण विवक्षितसाध्यस्य वीजादावभावात् । यदि चैकवृत्तिप दस्याव्यासज्यवृत्तित्वमर्थस्तदा धर्म्मत्वादिमत्यदृष्टे यथा विवक्षितसाध्याव्यापकत्वमपि द्रष्टव्यम्। अत्र यदीति । इदमपि कार्य्यानुकूलत्वं यथाश्रुतमेव साध्यप्रविष्टमित्यभिसन्धाय । यदि च यथा विवक्षितं कार्य्यानुकूलत्वं तथा, तदोक्तमहष्टेन सिद्धसाधनमप्रयोजकत्वं च दूषणं द्रष्टव्यम् । योगीति । विशेषपदार्थविशिष्टनित्यद्रव्यसाक्षात्कारविषयत्वेन [१] उभयोरपि हेतुत्वादिति भावः । एतच्च वर्त्तमानगोचरसाक्षा त्कारमात्रस्यैष विषयजन्यत्वमिति मतेन । गुणपक्षत्व इति । यद्यपि द्रव्यपक्षतायामध्ययमुपाधिः सम्भवत्येव उपाधेर्नित्यनिर्द्दोषत्वात् तथापि सत्प्रतिपक्षोत्थापकतयोपाधेर्दोषत्वम् द्रव्यपक्षतायां च न द्रव्यत्वमुपाधिस्तद्व्यतिरेकस्य पक्षावृत्तित्वादित्यभिप्रायेणेदम् । यद्यण्येवमपि मूलोक्त्त उपाघिरसमाहित एव, तथापि आत्मत्वमुपाधिरिति मूले द्रव्यत्व [२] मेवोपाधिरित्यर्थ इति भावः । ननु गुणोऽप्यदृष्टसापेक्षतया साध्यसत्त्वेनोपाधेः साध्याध्यापकत्वं पूर्वोतक्रमेण बाऽद्दष्टे साध्याव्यापकत्वमित्यरुचेर परितोष निबन्धनमेवाग्रिमग्रन्थ


  1. रे विष’ ।
  2. 'त्यमुपा'