मेकविधस्यापि पदार्थस्य स्थलान्तरे वर्णनात्मिका सूत्रकारौली वल्लभाचायेण
किमिति समवलम्बितेति स एव जानात्यस्य प्रयोजनम् ।
(न्यायकीलावत्या भाष्यातिशायिविपयस्वम् )।
एवञ्चोकरीत्याऽभावादिनिरूपणं प्रगाढपाण्डित्येन विवेचयता वल्लभाचार्येण न्यायलीलावतीनिबन्धः प्रशस्तपादीयधर्मसंग्रहापरपर्यायभाष्यनिबन्धविषयातिशायित्वाहार्शनिकसृष्टौ प्रख्याति नीतस्तत्त्वचिन्तामण्यादिमहानिबन्धाध्ययनाध्यापनात्पूर्वकालमारभ्य मिथिलायां वङ्गदेशे च पठनपाठनादावत्यन्तप्रचलितो बभूवेति श्रूयतेऽवधार्यते च तदुपरिलिखिताभिस्तद्देशीयप्रसिद्धनैयायिकैर्व्यानपरम्परामिर्यतोत्राऽद्ययावत्
(१) न्यायलीलावतीविवेकः ( पक्षधरमिश्रकृतः ) (1275) A. D
(२) न्या० ली० रहस्यम् (मथुरानाथतर्क० कृतम् ) (1570) A.D.
(३) न्या० ली. विभूतिः (रघुनाथशि० कृता)(1477-1547) A. D\
(४) न्या. ली. प्रकाशः (रामकृष्णभट्टाचार्यकृतः)
(५) न्या०ी० वर्धमानेन्दुः (वाचस्पतिमिश्र ) (1450) A. D
(६) न्या० ली० कएण्ठाभरराम् (शङ्करमिश्रकृतम् ) (1450) A. D
(७) न्या. ली. प्रकाशः (वर्धमानोपाध्याय कृतः ) (1250)
इति सप्तटीकाः पुरातन्य उपलभ्यन्ते । प्रकाशव्याख्यानस्यापि मथुरानाथवागीशकृतं रहरूट (१) रघुनाथशिरमणिकृता दीधितिः (२) भगीरथठक्कुरकृता विवृति( ३ )क्ष्चेति तिस्रो व्याख्या विहिताः ।
(उपसंहारः।)
एवमुक्तविशेषैरत्युत्कृष्टस्याऽस्य न्यायलीलावतीनिबन्धस्य दुर्घटे संशोधनका यन्मदीयमित्रवरैः व्याकरणाचार्यै: प्रण्डितप्रवरहारानचन्द्रशास्विमिश्रिमस्थलाक्षरसंयोजनव्याख्यादिना सम्यगनुगृहीतोऽस्मि, तथा काशीस्थराजकीयसंस्कृतपाठशालाध्यक्षपण्डितगोपीनाथकविराजमहोदश्च वल्लभाचार्याणामतिविषये यत्प्रबोधितोऽभूवन्तेनैतयोरुपकृतिं शिरसा वहन् यदन्न प्रमादादिजन्म दोषजातं दृश्येत तदनैः सद्धिः क्षन्तव्यम् इति प्रार्थवते---
वसन्तोत्सवः। विदुषाममनुःच्र:।
१९९० ढुण्डिराजशास्त्री।