कृतेऽपि । शक्तेरपि शक्त्यन्तरापेक्षायामनवस्थितेः । अनपेक्षत्वे
तथैव [१] व्यभिचारात् । जननशक्तियोग्यत्वं जनकत्वमिति चे-
न्यायलीलावतीकण्ठाभरणम्
शक्तेरपीति । जनकतावच्छेदकत्वाभ्युपगमे नायं दोषो हेतोरेव तत्रा- भावात् । अनवस्थितिरित्यपसिद्धान्तमुपलक्षयति । तयैवेति । ननु शक्तिजन्यजनकत्वस्य शक्तिसापेक्षत्वस्य शक्तावपि सत्त्वान्न व्यभिचारो न वेयं व्यभिचारादेशना सम्भवत्युपजीव्यविरोधात् न हि व्यभिचारस्तन्नये तत्प्रमाणादन्येन सिद्धमिति चेन्न त्वदनुमानस्य स्वविरोध्यत्वोपस्थापकत्वेनाप्रमाणत्वमिति विवक्षितत्वात् । परो व्यभिचारमु द्धरति - जननेति । शक्तौ च न जननशक्तियोगित्वमात्माश्रयानव-
न्यायलीलावतीप्रकाशः
पूर्वापरितोषेणाह- शक्तेरपीति । अपसिद्धान्तश्चेति शेषः । तयैवेति । ननु सापेक्षत्वं तज्जन्यजनकत्वं तच्च शक्तावस्त्येव न हि शक्तिजन्यजनकत्वं न शक्तौ विरोधात् । किं च शक्तिस्वीकारोऽनेनैव प्रमाणेन । तथा च शक्त्या तद्दूषणे उपजीव्यविरोधः | मै वम् प्रतिपक्षादृष्टाभावेनान्यथोपपत्तेरनुमानमप्रयोजकम् । यद्वा याऽनुमितिः स्वहेतुव्याप्ति विरोधिनमर्थे साधयति सा न प्रमेत्यनुमितेरेवाप्रमात्वमनेनोद्भाव्यत इति भावः । शक्तौ मानाभावेऽपि साधकबाधकमानाभावात् संशय: स्या-
न्यायलीलावतीप्रकाशविवृतिः
मवतारयति — यद्वेति । ननु सापेक्षत्वमिति । न च शक्तेर्जनकतावच्छेदकतथा शक्तिजन्याप्रसिद्धेर्मैवमिति वाच्यम्, तथा सति जनकत्वहेत्वभावादेव तत्र व्यभिचाराभावादिति भावः। ननु तज्जन्यजनकत्वमात्रं न साध्यमतीन्द्रिये रूपादौ स्वेनैवान्यथासिध्या शक्तिसिद्ध्यनापत्तेरपि तदाश्रयत्वे सतीति विशिष्टमित्यरुचेराह - किश्चेति । नन्वेवं दोषान्तरसम्भवेऽपि मौलं व्यभिचारोद्भावनमसमर्थितमेवेत्यत आह -- याऽनुमितिरिति । तथा च नेह प्रतिबन्धार्थे व्यभिचारोद्भावनं मौलमपि तु जातानुमितेरप्रामाण्यप्रतिपादनार्थं मित्यर्थः । यद्यपि शक्तिमादाय व्यभिचार इति विषयाबाधादेव नानुमितेरप्रामाण्यम्, तथा-
- ↑ तयैव व्य० ।